________________
९०
संमतितर्कप्रकरणे, काण्ड-१, गाथा-४९-५०
सतस्तस्य त्रिविधयोगात्मकत्वात् अनेकान्तरूपता व्यवस्थितैव । न चान्योन्यानुप्रवेशात् एकात्मकत्वे बाह्याभ्यन्तरविभागाभाव इति अन्तर्हर्षविषादाद्यनेकविवर्त्तात्मकमेकं चैतन्यम्, बहिर्बाल-कुमार-यौवनाद्यनेकावस्थैकात्मकमेकं शरीरमध्यक्षतः संवेद्यत इत्यस्य विरोधः बाह्याभ्यन्तरविभागाभावेऽपि निमित्तान्तरतः तद्व्यपदेशसम्भवात् ।।४९ । । [S.T.P.453] [ आत्म-पुद्गलयोर्वस्तुतो बाह्याभ्यन्तरविभागाभावेऽप्यभ्यन्तरव्यपदेशस्य
मनोनिमित्तकत्वेन समर्थनम् ] | एतदेवाह
ण य बाहिरओ भावो अब्भंतरओ य अस्थि समयम्मि ।
णोइंदियं पुण पड्डञ्च होइ अब्भंतरविसेसो ।।५।। आत्म-पुद्गलयोरन्योन्यानुप्रवेशात् उक्तप्रकारेण अर्हत्प्रणीतशासने न बाह्यो भावः अभ्यन्तरो वा संभवति मूर्त्तामूर्तरूपादितयाऽनेकान्तात्मकत्वात् संसारोदयवर्तिनः सकलवस्तुनः । अभ्यन्तरः इति व्यपदेशस्तु नोइन्द्रियं मनः प्रतीत्य तस्यात्मपरिणतिरूपस्य पराप्रत्यक्षत्वात् शरीर-वाचोरिव । [S.T.P.453]
- शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायाम् स्तबक-३ गाथा-४२ नन्वेवमन्तहर्ष-विषादाद्यनेकविवर्तात्मकमेकं चैतन्यम्, बहिर्बाल-कुमार-यौवनाद्यनेकावस्थात्मकमेकं शरीरमध्यक्षतः संवेद्यत इत्यस्य विरोधः, बाह्या-ऽभ्यन्तरविभागाभावादिति चेत् ? सत्यम्, आत्मभिन्नत्वाभ्यां तद्व्यपदेशाद् । तदाह [सम्मतौ] -
ण य बाहिरओ भावो अभंतरओ अ अत्थि समयम्मि ।
णोइंदियं पुण पडुश्च होइ अब्भंतरविसेसो ।। [१/५०] सर्वस्यैव मूर्ताऽमूर्त्तादिरूपतयाऽनेकान्तात्मकत्वात् 'अयं बाह्यः, अयं चाभ्यन्तरः' इति समये न वास्तवो विभागः । अभ्यन्तर इति व्यपदेशस्तु नोइन्द्रियं मनः प्रतीत्य, तस्याऽऽत्मपरिणतिरूपस्य पराऽप्रत्यक्षत्वात्, शरीर-वाचोरिव । न च तद्वदेव तस्य परप्रत्यक्षत्वापत्तिः, इन्द्रियज्ञानस्या
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org