________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-४८-४९
देहाद्याश्रितरूपादिग्रहणपरिणतज्ञान-दर्शनपर्यायद्वारेणात्मनस्तथाविधत्वात् तथाव्यपदेशसम्भवात् आत्मपुद्गलयोप्टा रूपादि-ज्ञानादीनामन्योन्यानुप्रवेशात् कथञ्चिद् एकत्वम् अनेकत्वं च, मूर्त्तत्वम् अमूर्त्तत्वं चाव्यतिरेकात् सिद्धमिति ।।४८ । । [S.T.P.453]
-: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायाम् स्तबक-३, गा. ४२ एवं तर्हि ज्ञानादयोऽपि देहे स्युः, देहरूपादयोऽप्यात्मनीति चेत् ? इष्टापत्तिः । तदाह [सम्मतौ]
रूवाइपजवा जे देहे जीवदवियम्मि सुद्धम्मि ।
ते अण्णोण्णाणुगया पण्णवणिज्जा भवत्थम्मि ।।१/४८ ।। इति । ‘गौरोऽहं जानामि' इत्यादिधियस्तथैवोपपत्तेः, रूपादि-ज्ञानादीनामन्योऽन्यानुप्रवेशेन कथञ्चिदेकत्वा-ऽनेकत्व-मूर्तत्वादिसमावेशात् । अत एव दण्डात्मादीनामेकत्वमनेकत्वं च स्थानाङ्गे व्यवस्थितम् । तदाह [सम्मतौ] -
“एवं एगे आया, एगे दंडे अ होइ किरिया य ।
करणविसेसेण य तिविहजोगसिद्धी व अविरुद्धा ।।१/४९ ।। [ परस्परानुप्रवेशादात्म-पुद्गलयोः कथञ्चिदेकत्वस्यानेकत्वस्य चोपपादनम् ] एतदेवाह
एवं “एगे आया एगे दंडे य होइ किरिया य" ।
करणविसेसेण य तिविहजोगसिद्धी वि अविरुद्धा ।।४९।। एवं इत्यनन्तरोदितप्रकारेण मनो-वाक्-कायद्रव्याणामात्मन्यनुप्रवेशात् आत्मैव न तद्व्यतिरिक्तास्त इति तृतीयाङ्कस्थाने “एगे आया" (स्थाना० सू० २ पृ० १०) इति प्रथमसूत्रप्रतिपादितः सिद्धः एक आत्मा एको दण्ड एक क्रियेति भवति मनो-वाक्-कायेषु दण्डक्रियाशब्दौ प्रत्येकमभिसम्बन्धनीयौ करणविशेषेण च मनो-वाक्-कायस्वरूपेणात्मन्यनुप्रवेशावाप्तत्रिविधयोगस्वरूपत्वात् त्रिविधयोगसिद्धिरपि आत्मनः अविरुद्धैवेति एकस्य
1-वि (संमति.) । 2-व (स्या. कल्प.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org