________________
संमतितर्कप्रकरणे, काण्ड - १, गाथा- ४७
एतदेवाह
[ जल- दुग्धदृष्टान्तेन जीव- कर्मणोरविभागकथनम् ]
अण्णोणाणुगाणं 'इमं व तं व' त्ति विभयणमजुत्तं । जह दुद्ध - पाणियाणं जावंत विसेसपज्जाया ।। ४७ ।।
अन्योन्यानुगतयोः परस्परानुप्रविष्टयोः आत्म-कर्मणोः 'इदं वा तद् वा' इति 'इदं कर्म अयमात्मा' इति यद् विभजनं पृथक्करणं तद् अयुक्तम् अघटमानकम्, प्रमाणाभावेन कर्त्तुमशक्यत्वात् । यथा दुग्ध-पानीययोः परस्परप्रदेशानुप्रविष्टयोः । किंपरिणामोऽयमविभागो जीवकर्मप्रदेशयोः ? इत्याह- यावन्तो विशेषपर्यायास्तावान् । अतः परमवस्तुत्वप्रसक्तेः अन्त्यविशेषपर्यन्तत्वात् सर्वविशेषाणाम् ' अन्त्य' इति विशेषणान्यथानुपपत्तेः ।। ४७ ।।
[S.T.P. 452]
-: शास्त्रवार्त्तासमुच्चये :
स्याद्वादकल्पलताटीकायाम्, स्तबक- ३, गाथा- ४२
८७
इयं च देहस्पर्शादिसंवित्तिष्टा अन्योन्यव्याप्तिजा गुडशुण्ठीद्रव्ययोरिव शरीराऽऽत्मनोर्जात्यन्तरतापत्तिप्रभवा, प्रतिप्रतिकं तदनुभवात्, एकाभावेऽप्यभावाच्च । युक्तं चैतत्, अविभागदर्शनात्, नरत्वादेरेकनिष्ठत्वेऽतिप्रसङ्गात्, व्यासज्यवृत्तित्वे च परस्यापसिद्धान्तः, व्यासज्यवृत्तिजात्यनभ्युपगमात्, एकाश्रयत्वानुभवविरोधात्, शरीराऽप्रत्यक्षेऽप्यन्धकारे नरत्वप्रतीत्यनुपपत्तेष्टा । तदिदमाह भगवान् सम्मतिकारः
Jain Education International 2010_02
गाणं इमं व तं वत्ति विभयणमजुत्तं । जह दुद्ध-पाणियाणं जावंत विसेसपज्जाया ।। [१/४७] ।। अन्योन्यानुगतयोरात्म-कर्मणोर्दुग्ध-पानीययोरिव यावन्तो विशेषपयार्यास्तावत्सु इदं वा तद् वा इति' विभजनमयुक्तम्, प्रमाणाभावात् ।
-: द्वादशारनयचक्रे :
आरक-८
परमार्थतस्तु वादपरमेश्वरवाद एवायम् । कस्मात् ? एकैकद्रव्यानन्तपर्यायत्वादस्मन्मतमेव, अहं
For Private & Personal Use Only
www.jainelibrary.org