SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड -१, गाथा- ४५-४६ [ पुरुषदृष्टान्ते भेदाभेदात्मकत्वपरिणतिर्बाह्यप्रत्यक्षेण सिद्धेति प्रदर्शनम् ] एवमभेदभेदात्मकस्य पुरुषतत्त्वस्य यथा अतीतानागतदोषगुणनिन्दाभ्युपगमाभ्यां सम्बन्धः तथैव भेदाभेदात्मकस्य तस्य सम्बन्धादिभिर्योग इति दृष्टान्तदान्तिकोपसंहारार्थमाहजाइ-कुल- रूव-लक्खण- सण्णा - संबंधओ अहिगयस्स । बालाइभावदिट्ठविगयस्स जह तस्स संबंधी ।। ४५ ।। ८६ जातिः पुरुषत्वादिका, कुलं प्रतिनियतपुरुषजन्यत्वम्, रूपं चक्षुर्ग्राह्यत्वलक्षणम्, लक्षणं तिलकादि सुखादिसूचकम्, संज्ञा प्रतिनियतशब्दाभिधेयत्वम्, एभिर्यः सम्बन्धस्तदात्मपरिणामः ततस्तमाश्रित्य अधिगतस्य ज्ञानस्य (ज्ञातस्य) तदात्मकत्वेनाभिन्नावभासविषयस्य यद्वा सम्बन्धो जन्यजनकभावः एभिरधिगतस्य तत्स्वभावस्यैकात्मकस्येति यावत् बालादिभावैर्दृष्टैर्विगतस्य तैरुत्पादविगमात्मकस्य तथा भेदप्रतीतेस्तस्य यथा तस्य सम्बन्धो भेदाभेदपरिणतिरूपो भेदाभेदात्मकत्वप्रतिपत्तेर्बाह्याध्यक्षः । । ४५ । । [S.T.P.450] [ आध्यात्मिकप्रत्यक्षतोऽपि तत्र दृष्टान्ते यथा भेदाभेदात्मकत्वसिद्धिस्तथा दान्तिके जीवेऽपि तद्योजनम् ] आध्यात्मिकाध्यक्षतोऽपि तथाप्रतीतेस्तथारूपं तद् वस्त्विति प्रतिपादयन्नाह दृष्टान्तदान्तिकोपसंहारद्वारेण तेहिं अतीताणागयदोसगुणदुगंछणऽब्भुवगमेहिं । तह बंध - मोक्ख - सुह - दुक्खपत्थणा होइ जीवस्स ||४६ || ताभ्यामतीतानागतदोष- गुणजुगुप्सा -ऽभ्युपगमाभ्यां यथा भेदाभेदात्मकस्य पुरुषत्वस्य सिद्धिः तथा दार्ष्टान्तिकेऽपि ' तह बंध - मोक्ख- सुह- दुक्खपत्थणा होइ जीवस्स' इति तथा बन्ध-मोक्ष- सुख-दुःखप्रार्थना तत्साधनोपादानपरित्यागद्वारेण भेदाभेदात्मकस्यैव जीवद्रव्यस्य भवति बालाद्यात्मकपुरुषद्रव्यवत् । न च जीवस्य पूर्वोत्तरभवानुभवितुरभावात् बन्ध-मोक्षभावाभावः उत्पाद-व्यय- ध्रौव्यात्मकस्य तस्यानाद्यनन्तस्य प्रसाधितत्वात् ।।४६ ।। [S.T.P.451] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy