________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-४४
-: शास्त्रवार्तासमच्चये :
स्याद्वादकल्पलताटीकायाम्, स्तबक-७ न चाप्यभेद एवेत्याह
युवैव न च वृद्धोऽपि नान्यार्थं चेष्टनं च तत् ।
अन्वयादिमयं वस्तु तदभावोऽन्यथा भवेत् ।। ३० ।। न च युवैव वृद्धोऽपि सर्वथा वृद्धपर्यायापन्न एव, ‘इदानीमयं युवा न वृद्धः' इति प्रतीतेः । न च तत्काले तत्र यूनि तत्संतानीयवृद्धभेद एव, यतोऽन्यार्थं संतानान्तरवृद्धवत् न च चेष्टनं कायव्यापाररूपम् । तत् तस्मात्, वस्तु अन्वयादिमयम्, आदिना व्यतिरेकग्रहादन्वय-व्यतिरेकशबलम्, अन्यथा तदभावः अधिकृतवस्त्वभावो भवेत्, सर्वथाऽसत्सद्भावविरोधात् । तदिदमुक्तं सम्मतिकृता
पडिपुन्नजोव्वणगुणो जह लज्जइ बालभावचरिएण । कुणइ य गुणपणिहाणं अणागयसुहोवहाणत्थं ।। १/४३ ।। ण य होइ जोव्वणत्थो बालो अन्नो वि लज्जइ न तेण ।
ण वि अ अणागयतग्गुणपसाहणं जुजइ विभत्ते ।। १/४४ ।। इति । [ केवलद्रव्यार्थिकनयमतस्याप्यपूर्णत्वमिति प्रदर्शनेन वस्तुनो भेदाभेदरूपत्वसूचनम् ] अत्रापि मते यथावस्थितवस्तुस्वरूपप्ररूपणा न प्रतिपूर्यत इति सूत्रान्तरेण दर्शयति__ण य होइ जोव्वणत्थो बालो अण्णो वि लज्जइ ण तेण ।
ण वि य अणागयवयगुणपसाहणं जुज्जइ विभत्ते ।।४४।। न च भवति यौवनस्थः पुरुषो बालः अपि त्वन्य एव अन्योऽपि न लज्जते बालचरितेन पुरुषान्तरवत् तेनानन्यः । नाप्यनागतवृद्धावस्थायां सुखप्रसाधनार्थमुत्साहस्तस्य युज्यते अत्यन्ताभेदे । एतदेवाह-विभक्त इति विभक्तिर्भेदः । अकारप्रश्लेषाद् अविभक्ते भेदाभावेऽविचलितस्वरूपतया तत्प्रसाधकगुणयत्नासम्भवात् । तस्मान्नाऽभेदमात्रं तत्त्वम् कथञ्चिद्रेदव्यवहृतिप्रतिभासबाधितत्वात् । नापि भेदमात्रम् एकत्वव्यवहारप्रतिपत्तिनिराकृतत्वादिति भेदाभेदात्मकंतत्त्वमभ्युपगन्तव्यम् अन्यथा सकलव्यवहारोच्छेदप्रसक्तिः ।।४४ । । [S.T.P.450] 1-अणागयवयगुण० (संमति.) । 2-अणागयतग्गुण० (स्या. कल्प.) ।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org