________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-४२-४३
__ [ केवलपर्यायार्थिकनयस्य मतमुपदर्य तस्यापूर्णत्वाभिधानम् ] इदानीं परस्पररूपापरित्यागप्रवृत्तसंग्रहादिनयप्रादुर्भूततथाविधा एव वाक्यनयास्तथाविधार्थप्रतिपादका इत्येतत् प्रतिपाद्य अन्यथाभ्युपगमे तेषामप्यध्यक्षविरोधतोऽभाव एवेत्येतदुपदर्शनाय केवलानां तेषां तावन्मतमुपन्यस्यति
जह दवियमप्पियं तं तहेव अस्थि त्ति पज्जवणयस्स ।
ण य स समयपनवणा पज्जवणयमेत्तपडिपुण्णा ।।४२।। यथा वर्तमानकालसम्बन्धितया यद् द्रव्यमर्पितं प्रतिपादयितुमभीष्टं तत् तथैवास्ति नान्यथा-अनुत्पन्न-विनष्टतया भावि-भूतयोरविद्यमानत्वेनाप्रतिपत्तेः अप्रतीयमानयोष्टा प्रतिपादयितुमशक्तेरतिप्रसङ्गाद् वर्तमानसम्बन्धिन एव तस्य प्रतीतेः इति पर्यायार्थिकनयवाक्यस्याभिप्रायः । एतद् अनेकान्तवादी दूषयितुमाह - न इति प्रतिषेधे, स इति तथाविधो वाक्यनयः परामृश्यते समय इति सम्यग ईयते परिच्छिद्यत इति समयोऽर्थस्तस्य प्रज्ञापना प्ररूपणा पर्यायनयमाने द्रव्यनयनिरपेक्षे पर्यायनये प्रतिपूर्णा पुष्कला सम्पद्यते । न स वाक्यनयः सम्यगर्थप्रत्यायनां पूरयतीति यावत् पर्यायनयस्य सावधारणैकान्तप्रतिपादन-रूपस्याध्यक्षबाधनात् तप्टाधां चाग्रतः प्रतिपादयिष्यति ।।४२ । । [S.T.P.449]
[ केवलद्रव्यार्थिकनयमतस्य प्रदर्शनम् ] द्रव्यार्थिकवाक्यनयेऽप्ययमेव न्याय इति तदभिप्रायं तावदाह
पडिपुण्णजोब्वणगुणो जह लज्जइ बालभावचरिएण ।
कुणइ य गुणपणिहाणं अणागयसुहोवहाणत्थं ।।४३।। प्राप्तयौवनगुणः पुरुषो लज्जते बालभावसंवृत्तात्मीयानुष्ठानस्मरणात् 'पूर्वमहमप्यस्पृश्यसंस्पर्शादिव्यवहारमनुष्ठितवान्' यथा इत्युदाहरणार्थो गाथायामुपन्यस्तः यथैव ततोऽतीतवर्त्तमानयोरेकत्वमवसीयते । करोति च गुणेषु उत्साहादिषु प्रणिधानमैकाग्र्यम् अनागतं यत् सुखं तस्योपधानं प्राप्तिस्तस्यै तदर्थम् ‘मयैतस्मात् सुखसाधनात् सुखमाप्तव्यम्' इति । यतप्टौवमतोऽनागत-वर्तमानयोरैक्यम् ।।४३ । । [S.T.P.449]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org