________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-४१
तदेवमेकत्र विषये प्रतिस्वमनेकनयविप्रतिपत्तिस्थले स्यात्कारलाञ्छिततावन्नयार्थप्रकारकसमूहालम्बनबोधजनक एक एव भङ्ग एष्टव्यः, व्यञ्जनपर्यायस्थले भङ्गद्वयवद् । यदि च-सर्वत्र सप्तभङ्गीनियम एव आश्वासः तदा-चालनीयन्यायेन तावन्नयार्थनिषेधबोधको द्वितीयोऽपि भङ्गः, तन्मूलकाप्टाान्येऽपि तावत्कोटिकाः पञ्चभङ्गाप्टा कल्पनीयाः, इत्थमेव निराकाङ्क्षसकलभङ्गनिर्वाहाद् इति युक्तं पश्यामः । એ વિચાર સાદ્વાદપંડિતઈ સૂક્ષ્મ બુદ્ધિ ચિત્તમાંહિ ધારવો. ૧૩
-: अष्टसहस्रीतात्पर्यविवरणे :
परिच्छेद-१, काण्ड-१६ अत्र नयविभागप्रदर्शनार्थमाह [सम्मतौ] -
एवं सत्तविअप्पो वयणपहो होइ अत्थपज्जाए ।
वंजणपज्जाए पुण सविअप्पो णिव्विअप्पो य ।। [१/४१] एवं-उक्तप्रकारेण सप्तविकल्पः सप्तभेदो वचनपथः अर्थपर्याये-अर्थनये सङ्ग्रहव्यवहारर्जुसूत्रलक्षणे भवति । तत्र प्रथमः सङ्ग्रहे सामान्यग्राहिणि, द्वितीयो व्यवहारे विशेषग्राहिणि, तृतीयपक्ष ऋजुसूत्रे सूक्ष्मवर्तमानक्षणग्राहिणि, एकदोभयार्पणाया वर्तमानक्षणनियतत्वात्, चतुर्थः सङ्ग्रहव्यवहारयोः, पञ्चमः सङ्ग्रहर्जुसूत्रयोः, षष्ठो व्यवहारर्जुसूत्रयोः, सप्तमः सङ्ग्रहव्यवहारर्जुसूत्रेषु । व्यञ्जनपर्याये विषयिलक्षणया शब्दनये सविकल्पः साम्प्रताख्यभेदे, पर्यायशब्दवाच्यताविकल्पसद्भावात्, निर्विकल्पः समभिरुद्वैवंभूतयोः पर्यायक्रियाभेदभिन्नार्थत्वात् तयोः । तथा च स्यादस्ति स्यान्नास्तीत्यत्र घटपदेन यावद्घटवाचकपदावाच्यत्वावच्छिन्नो धर्म्युपादेयः, तस्य फलतः प्रथमशब्दभेदे सत्त्वम्, द्वितीयतृतीययोष्टाासत्त्वमिति भेदद्वयं सिद्ध्यति । सविअप्पणिब्वियप्पं [१/३५] इत्यादिसिद्धसविकल्पकत्वनिर्विकल्पकत्वभङ्गद्वयोपादाने प्रकृतसप्तभङ्गीमुपक्रम्य धर्मान्तरसप्तभङ्गीसाधनेऽर्थान्तररूपनिग्रहस्थानप्रसङ्गादित्यस्माकमनेकान्तव्यवस्थादौ मनीषोन्मेषः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org