SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. ३३ तथाऽऽलोचयामि गुरोर्निवेदयामि सर्वं पूर्वोक्तं निन्द्यं गर्ह्य च तथा उपधिं मायां चालोचयामि साभ्यन्तरबाह्याम्, अभ्यन्तरां मनोदुष्प्रणिधानरूपां बाह्यां प्राणातिपातविषयां चेत्यर्थः ।। ३२ ।। ५८ गुण० निन्दामि निन्दनीयमसंयमकरणादि । गर्हामि गर्हणीयं पिण्डग्रहादि । तथा आलोचयामि च गुरोर्निवेदयामि सर्वं निन्दनीयं गर्हणीयम् । तथा सहाभ्यन्तरेण वर्त्तत इति साभ्यन्तरा तां, बहिर्भवा बाह्या ताम् । उपधि मायामभ्यन्तरां मनोदुष्प्रणिधानरूपां बाह्यां प्राणातिपात-विषयामित्यर्थः ।। ३२ ।। [गा. ३३-३६ आलोचनादायक ग्राहकाः] जह बालो जंपतो कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोइज्जा मायामोसं पमुत्तूणं ||३३ ॥ यथा बालो जल्पन् कार्यमकार्यं च ऋजुकं भणति । तथा तदालोचयेत् मायामृषां प्रमुच्य ।। ३३ ।। भुव० केन विधिनाऽऽलोचनीयमित्याह यथा बालोऽव्यक्तचेतनस्तनंधयो जल्पन् कार्यमकार्यं च भणितव्यमभणितव्यं च । ऋजुकं निर्मायतया प्राञ्जलतया भणति स्वमातुः कथयति । न पुनरेवं चिन्तयति लज्जनीयमेतदत्र न वाच्यं एतच्च वाच्यमिति । प्रच्छन्नं वा एतत्कथ्यं च प्रकटमेतदिति बालभावत्वादेवमनवगच्छन् सर्वमेव वदति । तत्तथैव तन्न्यायेनालोचयेत् गुरोः प्रकटयेत् मायां प्रच्छादनरूपां मृषां चान्यथाकथनरूपां प्रकर्षेण मुक्त्वा प्रमुच्य परित्यज्येत्यर्थः ||३३|| सोम ० कथमालोचनीयमित्याह यथा बालो जल्पन् कार्यमकार्यं च भणितव्यमभणितव्यं च वदन् ऋजुकं प्राञ्जलतया निर्मायतया भणति स्वमातुः कथयति, न पुनरेवं चिन्तयति “लज्जनीयमेतदत्र न वाच्यम्, एतद् वाच्यमिति", किन्तु प्रच्छन्नं प्रकटं वा सर्वमेव भणति, तत् पापं तथैव तन्यायेनैवाऽऽलोचयेत् गुरोः प्रकटयेत् मायां पापाच्छादनरूपां मृषां चान्यथाकथनरूपां प्रकर्षेण मुक्त्वा प्रमुच्य परित्यज्येत्यर्थः ।। ३३ ।। गुण० केन विधिनालोचनीयमित्याह यथा बालः शावो जल्पन् लपन् कार्यमकार्यं भणितव्यमभणितव्यं च । ऋजुकं निर्मायतया भणति स्वमातुः कथयति, न पुनरेवं चिन्तयति " लज्जनीयमेतदत्र न वाच्यम्, एतच्च वाच्यमिति" तत्तथैवालोचयेत् गुरोः प्रकटयेत् । मायां प्रच्छादनरूपां मृषां चान्यथाकथनरूपां परित्यजेत् [परित्यज्य]।।३३।। Jain Education International 2010_02 For Private & Personal Use Only = www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy