________________
खण्ड:-१ गा. ३१, ३२
अस्संजममन्नाणं मिच्छत्तं सव्वमेव य ममत्तं । जीवेसु अजीवेसु य तं निंदे तं च गरिहामि ।।३१।। असंयममज्ञानं मिथ्यात्वं सर्वमेव च ममत्वम् ।
जीवेष्वजीवेषु च तन्निन्दामि तच्च गर्हामि ।।३१।। भुव० असंयम विराधनास्वभावमेकविधम्, अज्ञानं मूढतारूपमेकभेदमेव, मिथ्यात्वं विपर्ययरूपं तदप्येकविधम् । तथा सर्वामेव च ममतां केषु विषयेषु ? जीवेषु पुत्रकलत्रगोअश्वादिषु, अजीवेषु हिरण्यवस्त्रादिषु । तत्सर्वं निन्दाम्यात्मसाक्षिकं गर्हामि गुरुसाक्षिकं यदनाभोगादिना न प्रतिक्रान्तमित्यर्थः ।।३१।।
सोम० तथा असंयमं विराघनास्वभावमेकविधम्, अज्ञानं मूढतारूपमेकविधमेव, मिथ्यात्वं विपर्ययरूपमेकविधमेव सामान्येन तथा सर्वामेव ममतां केषु ? जीवेषु पुत्रकलत्रगोअश्वादिषु, अजीवेषु च हिरण्यवस्त्रादिषु तत् सर्वं निन्दाम्यात्मसाक्षिकम्, गर्हामि गुरुसाक्षिकम्, यदनाभोगादिना न प्रतिक्रान्तमित्यर्थः ।।३१।।
गुण. असंयमं विराधनास्वभावमेकविधम्, अज्ञानं मूढतारूपमेकभेदमेव । मिथ्यात्वं विपर्ययरूपं तदप्येकविधम् । सर्वामेव ममतां केषु ? जीवेषु गोअश्वादिषु अजीवेषु हिरण्यादिषु ।।३१।।
निंदामि निंदणिज्जं गरिहामि य जं च मे गरहणिज्ज ।
आलोएमि य सव्वं अभिंतर बाहिरं उवहिं ।।३२।। निन्दामि निन्दनीयं गर्हामि च यच्च मे गर्हणीयम् ।
आलोचयामि च सर्वमभ्यन्तरं बाह्यमुपधिम् ।।३२।। भुव. न केवलमेतदन्यदप्याह निन्दामि निन्दनीयमसंयमकरणादि, गर्हामि यच्च मे मम गर्हणीयं जुगुप्सितं पिण्डग्रहणादि । तथा आलोचयामि च गुरोनिवेदयामि । सर्वं निन्दनीयं गर्हणीयं तथा सह अभ्यन्तरेण वर्त्तत इति साभ्यन्तरा तां । बहिर्भवा बाह्या, ताम् उपधिं, मायां मनोदुष्प्रणिधानरूपां बाह्यां प्राणातिपातविषयामित्यर्थः ।।३।।
सोम0 अथ सामान्यतः सर्वमप्यालोचयतीत्याह - यत् किञ्चिनिन्दनीयं निन्दार्हमसंयमकरणादि तनिन्दामि, यच्च मे मम गर्हणीयं गर्हाहँ सदोषपिण्डग्रहणादि तत्सर्वं गर्हामि च
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org