________________
आतुरप्रत्याख्यानप्रकीर्णकम् गा. ३०
तदहमानाराधनं सर्वं निरवशेषं निन्दामि आत्मसाक्षिकं मिथ्यादुष्कृतं दधि । आगमिष्याणां आगामिनां मूलोत्तरगुणानां विराधनां प्रत्याख्यामि । यतोऽतीतस्य निन्दा, वर्तमानस्य संवरणमनागतस्य प्रत्याख्यानमभाणीति ।।२९।।।
सोम0 अथ प्रमादप्रतिक्रमणमाह - मूलगुणाः प्राणातिपातविरमणादय उत्तरगुणाः पिण्डविशुद्ध्यादयस्ततो द्वन्द्वः, ये मूलोत्तरगुणा मया नाऽऽराधिता न सम्यक् पालिताः प्रमादेनाऽज्ञानाद्यष्टविधेन तदहमनाराधनं सर्वं निरवशेषं निन्दाम्याऽऽत्मसाक्षिकं मिथ्यादुष्कृतं ददामि आगमिष्याणामुत्तरकालसम्भाविनां मूलोत्तरगुणानां विराधनां प्रत्याख्यामि नियमगोचरीकुर्वे । यतोऽतीतस्य निन्दा, वर्तमानस्य संवरणम्, अनागतस्य प्रत्याख्यानं चागमयुक्तमिति भावार्थः ।।२९।।
गुण मूलगुणाः प्राणातिपातादयः उत्तरगुणाः पिण्डविशुध्यादयः ये मया नाराधिता न सम्यक् परिपालिताः प्रमादेन तदहमनाराधनं सर्वं निरवशेषं निन्दाम्यात्मसाक्षिकं आगमिष्याणामागामिनां मूलोत्तरगुणानां विराधनां प्रत्याख्यामि ।।२९।।
सत्त भए अट्ठ मए. सन्ना चत्तारि गारवे तिन्नि । आसायण तेत्तीसं रागं दोसं च गरिहामि ।।३०।। सप्तभयानि अष्ट मदान् संज्ञाः चतस्रः गौरवाणि त्रीणि ।
आशातनास्त्रयस्त्रिंशतं राग द्वेषं च गर्हामि ।।३०।। भुव० अन्यदपि यत्प्रतिक्रामति तदाह - इहपरलोकादानाकस्मादाजीविकामरणाश्लोकभयानि सप्त । अष्टौ जातिकुलबलरूपतपऐश्वर्यलाभश्रुतरूपान् मदान् । संज्ञा आहार-भय-परिग्रह-मैथुनरूपाश्चतस्रः । गर्वान् त्रीन् ऋद्धि-रस-सातरूपान् । आशातना अर्हदाद्या गुरुसत्का वा त्रयस्त्रिंशत् । राग द्वेषं च गर्हामि जुगुप्स इत्यर्थः ।।३०।।
सोम0 अन्यदपि यत् प्रतिक्रामति तदाह - इहपरलोकाऽऽदानाऽकस्मादाजीविकामरणाश्लोका इति सप्तभयानि । अष्टौ मदान् जातिकुलबलरूपतपःश्रुतलाभैश्वर्यरूपान्, संज्ञाश्चतस्त्र आहारभयमैथुनपरिग्रहरूपाः, गर्वान् त्रीन् ऋद्धिरससातरूपान्, आशातना अहंदाद्याः प्रतिक्रमणसूत्रोक्ता गुरुसत्का वा त्रयस्त्रिंशत्, राग द्वेषं च गर्हामि ।।३० ।।
गण भयानि सप्तानि । अष्टौ जात्यादीन् मदान् संज्ञा आहाराद्याः चतस्रः । गर्वान् त्रीन् ऋध्यादीन् । आशातनाः त्रयस्त्रिंशत् रागं द्वेषं च गर्हामि जुगुप्सें ।।३०।।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org