________________
खण्ड:-१ गा. २८, २९
५५
भुव० एक एवात्मा मे मम शश्वद्भवनाद् गमनाच्च शाश्वत: सहचारी [आत्मा| ज्ञानदर्शनयुक्तः । शेषा ये केचन मम बाह्या भावाः पदार्थाः पुत्रकलत्रादिकास्ते सर्वे संयोगलक्षणा एव कृत्रिममेलापका एव । येषां संयोगस्तेषामवश्यंभावी वियोग इति परमार्थः ।।२७।।
सोम0 एक एव मे मम आत्मा शश्वद् भवनात् शाश्वतः सहचारी ज्ञानदर्शनसंयुक्तः स एव मदीय इत्यर्थः । शेषा ये केचन मे मम बाह्यभावाः पदार्थाः पुत्र-कलत्र-मित्र-बान्धवादिकास्ते सर्वे संयोजनं संयोगः स एव लक्षणं येषां ते तथा कृत्रिममेलापका इव न तु शाश्वताः, येषां संयोगस्तेषामवश्यंभावी वियोग इतिहेतोर्न मदीयास्ते इति परमार्थः ।।२७ ।।
संजोगमूला जीवेणं पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंधं सव्वं भावेण [तिविहेण वोसिरे ।।२८ ।। संयोगमूला जीवेन प्राप्ता दुःखपरम्परा ।
तस्मात्संयोगसम्बन्धं सर्वं भावेन [त्रिविधेन] व्युत्सृजामि ।।२८।। भुव० अथ कथं वियोगदुःखानीत्याह - संयोग एव मूलं यासां ताः संयोगमूला जीवेन सांसारिकप्राणिना प्राप्ता अनुभूता दुःखपरंपरा अनिष्टकष्टश्रेणयः । यस्मादेवं तस्मात्कारणात्संयोगसम्बन्धं समवायाभिलाषं सर्वं भावेन स्वाभिप्रायेण व्युत्सृजामि ।।२८।।
सोम0 संयोगो नानाभवेषु पुत्रकलत्रमित्रशरीरादिसम्बन्धरूपः, स एव मूलं यासां ताः संयोगमूला जीवेन सांसारिकप्राणिना प्राप्ता अनुभूता दुःखपरम्परा जन्ममरणेष्टवियोगानिष्टसंयोगादिरूपा असङ्ख्यकष्टश्रेणयः, यस्मादेवं तस्मात् कारणात् संयोगस्य सम्बन्धोऽभिलाषः संयोगसम्बन्धस्तं सर्वं भावेन मनोवाक्कायेन स्वाभिप्रायेण व्युत्सृजामि त्यजामि ।।२८ ।।
मूलगुण उत्तरगुणे जे मे नाऽऽराहिया पमाएणं । तमहं सव्वं निंदे पडिक्कमे आगमिस्साणं ।।२९।। मूलगुणा उत्तरगुणा ये मया नाऽऽराधिताः प्रमादेन ।
तदहं सर्वं निन्दामि प्रतिक्रमाम्यागमिष्याणाम् ।।२९।। भुव० एवं व्युत्सृष्टममत्वेऽपि प्रतिक्रान्तमूलोत्तरगुणोऽपि पुन: किमाचष्ट इत्याह - मूलगुणाः प्राणातिपातविरमणादय उत्तरगुणाः पिण्डविशुद्ध्यादयस्ततो द्वन्द्वः । ये मूलोत्तरगुणा मया नाराधिता न सम्यक् प्रतिपालिताः प्रमादेनाज्ञानादिनाऽष्टप्रकारेण
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org