SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. २६, २७ सोम0 अथ केषु कार्येष्वयमात्माऽऽलम्बनं विधेय इत्याह - अतति सततं गच्छति तासु तासु योनिषु इति आत्मा, स मम ज्ञाने ज्ञानविषये आलम्बनं सहाय इत्यर्थः, 'हु' स्फुटं भवतु इति शेषः, आत्मा मे दर्शने सम्यक्त्वे चारित्रेऽपि चालम्बनं तथा प्रत्याख्याने भक्तपरिज्ञारूपे संयमे च सर्वविरत्यङ्गीकाररूपे योगे च प्रशस्तमनोवाक्कायव्यापाररूपे मम आत्मैवालम्बनम् । यत एतत् साहाय्यसाध्यानि ज्ञानदर्शनचारित्राणि तानि चात्मनः कदाचिदपि न भिन्नानि । अतः प्राग गाथायां 'आलंबणं च मे आया' इत्यत्र आत्मोपादानेन तान्यप्युपात्तानि दृष्टव्यानि ।।२५ ।। गुण आत्मा मम ज्ञानविषये आलंबनं 'हु' स्फुटं भवतु । दर्शने चारित्रेऽपि चात्मैव तथा प्रत्याख्यानेऽपि भक्तपरिज्ञारूपे संयमे सर्वविरतिरूपे प्रशस्तयोगत्रयरूपे ममात्मैवालम्बनम् । यत एतत्साध्यानि ज्ञानदर्शनचारित्राणि तानि चात्मनः कदाचिन्न भिन्नानि आत्मोपादाने तान्यप्युपात्तानि ।।२५।। एगो वच्चइ जीवो, एगो चेवुववज्जए । एगस्स चेव मरणं, एगो सिज्झइ नीरओ ।।२६।। एको व्रजति जीवः एकश्चैवोत्पद्यते । एकस्य चैव मरणम् एकः सिध्यति नीरजस्कः ।।२६।। भव एवं च परित्यक्तसमस्तबाह्याभ्यन्तरोपधिक एकत्वभावनां भावयन्निदमाह - एकः स्वजनधनादिविरहितो व्रजति जीवो भवान्तरम् । एक एव च उत्पद्यते जन्मतया । एकस्यैव मरणं भवति । एक एव च निष्कर्मा कर्मरजोरहित: सिद्ध्यति जीवः ।।२६।। सोम० अथ निर्ममत्वाय एकत्वभावनां भावयति - एकः स्वजनधनादिरहितो व्रजति जीवो भवान्तरमिति शेषः, एक एव चोपपद्यते मनुष्यत्वादिरूपतया; एकस्यैव मरणं भवति, एक एव च कर्मरजोरहितः सन् सिध्यति जीवः । भवान्तरगमनस्य मरणस्य चैकार्थत्वेऽपि पृथगुपादानमेकत्वभावनोत्कर्षपोषार्थं नानादेशजविनेयानां व्यक्त्यार्थप्रतिपादनार्थं वा ।।२६ । । एगो मे सासओ अप्पा नाणदंसणसंजुओ । सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा ।।२।। एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः । शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ।।२७।। ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy