SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ खण्ड:-१ गा. २४, २५ ममत्तं परिवज्जामि निम्ममत्तं उवट्ठिओ । आलंबणं च मे आया, अवसेसं च वोसिरे ।।२४ ।। ममत्वं परिवर्जयामि निर्ममत्वमुपस्थितः । आलम्बनं च मे आत्मा अवशेषं च व्युत्सृजामि ।।२४।। भुव तथा - ममैतदित्येवंरूपो भावो ममत्त्वं प्रतिबन्धं सर्वसारवस्तुष्विति । ज्ञपरिज्ञया परिजानामि, प्रत्याख्यानपरिज्ञया परिहरामि । किम्भूतः सन् निर्ममत्वमुपस्थित आश्रितः । तहि किमालम्बनतया चिन्तयतीत्याह - आलम्बनं च आश्रयो मे मम आत्मैवाराधनाहेतुरवशेषं च शरीरोपध्यादि व्युत्सृजामीत्यर्थः ।।२४।। सोम0 तथा ममैतदित्येवंरूपो भावो ममत्वं प्रतिबन्धं सर्वमनोऽभिमतवस्तुष्विति शेषः परिजानामि ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरामीत्यर्थः । अहं किम्भूतस्सन् ? निर्ममत्वं निस्सङ्गत्वमुपस्थित आश्रित इत्यर्थः । तर्हि किमालम्बनतया चिन्तयतीत्याह-आलम्बनं चाश्रयोऽवष्टम्भ आधार इत्यर्थः, मे ममात्मैवाराघना-हेतुरयमवशेषमपरं शरीरोपध्यादि सर्वं व्युत्सृजामि ।।२४।। गण. ममत्वं प्रतिबन्धं सारवस्तुष्विति ज्ञपरिज्ञया परिजानामि प्रत्याख्यानपरिज्ञया परिहरामि । निर्ममत्वमुपस्थित आश्रितः । आलम्बनं च आश्रयो मम आत्मैवाराधनाहेतुरवशेष च शरीरोपध्यादि व्युत्सृजामि ।।२४।। आया हु महं नाणे, आया मे दंसणे चरित्ते य । आया पच्चक्खाणे, आया मे संजमे जोगे ।।२५।। आत्मैव मम ज्ञाने आत्मा मे दर्शने चारित्रे च । आत्मा प्रत्याख्याने आत्मा मे संयमे योगे ।।२५।। भुवः अथ केषु विषयेषु आत्मा आलम्बनं विधेय इत्याह - अतति सततं गच्छति तासु तासु योनिष्वात्मा । स मम ज्ञानविषये आलम्बनं हु स्फुटं भवतु । आत्मा मे दर्शने सम्यक्त्वे आलम्बनं चारित्रेऽपि चात्मैव । तथा प्रत्याख्यानेऽपि भक्तपरिज्ञारूपे संयमे च सर्वविरत्यङ्गीकाररूपे । योगे च प्रशस्तमनोवाक्कायरूपे ममात्मैवालम्बनम् । यत एतत् - साहाय्यसाध्यानि ज्ञानदर्शनचारित्राणि तानि चात्मनः कदाचिदपि न भिन्नानि । अत आत्मोपादाने तान्युपात्तानि ।।२५।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy