________________
५२
आतुरप्रत्याख्यानप्रकीर्णकम् गा. २३
रागं बंधं पओसं च हरिसं दीणभावयं । उस्सुगत्तं भयं सोगं रइं. अरइं च वोसिरे ।।२३।। रागं बन्धं प्रद्वेषं च हर्ष दीनभावताम् ।
उत्सुकत्वं भयं शोकं रतिमरतिं च व्युत्सृजामि ।।२३।। भक प्रतिपन्नानशनश्चान्यदपि किमभिधत्त इत्याह - रागमभिष्वङ्गं, बन्धहेतुत्वाद्वन्धं रागलक्षणं बन्धमित्यर्थः । बन्धशब्दः प्रतिपदं योज्य: । प्रद्वेषणं प्रद्वेषस्तं च बन्धं मत्सरमित्यर्थः । हर्षणं हर्षः स्वजनमेलापकादौ सङ्घमेलापकादौ वा मम महती पूजा भविष्यतीति । दीनभावस्य भावो दीनभावता, तां प्रत्यनीकापमानादौ । उत्सुकस्य भावः उत्सुकत्वं पीडोत्पत्तौ झटित्येव यदि म्रियेऽहमित्येवंरूपम् । भयं देवाद्युपसर्गे सति, शोकमिष्टवियोगादौ, रतिं तथाविधानन्दरूपां मनोज्ञशब्दादौ, अरतिं च नोकषायमोहनीयोदयजचित्तविकारोद्वेगलक्षणं परीषहोपसर्गादौ व्युत्सृजामीत्यर्थः ।।२३।।
सोम0 अथ प्रतिपन्नानशनः किमभिधत्त इत्याह - रागं अभिष्वङ्गं किम्भूतम् ? बन्धहेतुत्वाद् बन्धं तथा प्रकर्षेण द्वेषः प्रद्वेषो मत्सर इत्यर्थः तं च किम्भूतम् ? बन्धं बन्धहेतुं, बन्धशब्दः पदद्वयेऽपि योज्यते राग-द्वेषयोर्द्वयोरपि बन्धनत्वात्, तथा प्रहर्षणं प्रहर्षः स्वजनमेलापकादौ सङ्घमेलापकादौ वा मम महती पूजा भविष्यतीति प्रमोदः, दीनो भावो मानसाध्यवसायो यस्यासौ दीनभावो दीनभावस्य भावो दीनभावता तां प्रत्यनीकापमानादौ दैन्यमित्यर्थः । उत्सुकस्य भाव उत्सुकत्वम्, पीडोत्पत्तौ शीघ्रमेव यदि म्रियेऽहं तदा वरमित्येवंरूपं, भयं देवाद्युपसर्गे सति, शोकमिष्टवियोगादौ, रतिं मनोऽभिमतक्षेत्रस्थानादिविषयाम्, अरतिं चानभिमतक्षेत्रादिविषयां चित्तोद्वेगलक्षणां व्युत्सृजामि त्यजामीत्यर्थः ।।२३।।
गुण रागमभिष्वङ्गं बन्धहेतुत्वाद् बन्धं, रागलक्षणं बन्धमित्यर्थः । बन्धशब्दः प्रतिपदं योज्यः । प्रद्वेषं मत्सरं, हर्षः स्वजनमेलापकादौ मे महती पूजा भाविनी, दीनभावता तां प्रत्यनीकापमानादौ । उत्सुकत्वं पीडोत्पत्तौ झटित्येव यदि म्रियेऽहमित्येवंरूपं, भयं देवाधुपसर्गे सति, शोकमिष्टवियोगादौ, रतिं मनोज्ञराज्यादौ, अरतिं च चित्तोद्वेगलक्षणां व्युत्सृजामि ।।२३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org