SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ खण्डः- १ गा. २१, २२ सोम० पुनर्यत् करोति तदाह - बहिर्भवं बाह्यं पात्राद्युपकरणरूपम्, अभ्यन्तरं कषायादिलक्षणं तथा शरीरादि च सह भोजनेन वर्त्तत इति सभोजनम् । अथवा उपधिं किम्भूतम् ? शरीरादि, उपधीयते जीवो दुर्गतौ स्थाप्यतेऽनेनाऽयत्नव्यापारितेन इत्युपधिः तं सर्वमुपधिं मनोवाक्कायैर्भावेन भावतो व्युत्सृजामि त्यजामि । सर्वशब्दाद् विभक्तिलोपः प्राकृतत्वात् ।।२०।। गुण बाह्यं पात्रादिलक्षणम्, अभ्यन्तरं कषायादिलक्षणम् । उपधिः परिग्रहं उपधीयते पोष्यते जीवोऽनेनेत्युपधिः शरीरादि च सभोजनं मनोवाक्कायैः सर्वं भावतो व्युत्सृजामि ।। २० ।। सव्वं पाणारंभं पच्चक्खामि त्ति अलियवयणं च । सव्वमदिन्नादाणं मेहुण्ण परिग्गहं चेव ।। २१ ।। सम्मं मे सव्वभूएस वेरं मज्झ न केणई । आसाओ वोसिरित्ताणं समाहिमणुपालए ।। २२ ।। सर्वं प्राणारम्भं प्रत्याख्याम्यलीकवचनं च । सर्वमदत्तादानं मैथुनं परिग्रह चैव ।। २१ । । साम्यं मे सर्वभूतेषु वैरं मम न केनचित् । आशा व्युत्सृज्य समाधिमनुपालये ।। २२ ।। भुव० इतोऽपि किं करोतीत्याह - नन्विदं गाथाद्वयमग्रेऽप्युक्तं किमिति पुनरुक्तमुक्तम् ? उच्यते पूर्वं साकारप्रत्याख्यानकर्त्तारमाश्रित्योक्तमिह तु संस्तारकप्रतिपत्तारमा - श्रित्योक्तमिति न पौनरुक्त्यम् । तर्हि " एस करेमि " इति गाथा किमिति नोक्ता ? उच्यतेएतस्या अर्थो नमोत्थु धुयपावाणमित्यनयोक्त इति नोक्ता । गाथाद्वयव्याख्यानं पूर्ववदेव । समाधिं प्रपद्ये ।। २१-२२ ।। ५१ - - सोम० पुनः किं करोतीत्याह - इदं गाथाद्वयं प्राग् व्याख्यातं तथैव ज्ञेयम् । ननु पुनरेतत् कस्मादुक्तम् ? उच्यते - पूर्वं साकारप्रत्याख्यानकर्त्तारमाश्रित्योक्तम्, इह तु संस्तारकानशनप्रतिपत्तारमाश्रित्योक्तमिति न पौनरूक्त्यम् । तर्हि “एस करेमि पणाम" इति गाथाऽपि किमिति नोक्ता ? उच्यते एतस्या अर्थो “नमुत्थु धुअपावाणं" इतिगाथया उक्त एवेति नोक्ता ।। २१ ।। २२ ।। गुण गाथाद्वयव्याख्यानं तु पूर्ववदेव । समाधिं प्रपद्ये ।। २१-२२ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy