________________
आतुरप्रत्याख्यानप्रकीर्णकम् गा. १९, २०
जं किंचि वि दुच्चरियं तं सव्वं वोसिरामि तिविहेणं । सामाइयं च तिविहं करेमि सव्वं निरागारं ।।१९।। यत् किञ्चिदपि दुश्चरितं तत्सर्वं व्युत्सृजामि त्रिविधेन ।
सामायिकं च त्रिविधं करोमि सर्वं निराकारम् ।।१९।। भुक तमङ्गीकुर्वन् किं किमभिधत्ते इत्याह - यत्किमपि दुश्चरितं विततमतिभिरनासेव्यं तत्सर्वं व्युत्सृजामि त्रिविधेन मनसा वाचा कायेन सामाइयं च तिविहं ति समानि संयमानि तेषामायो लाभः । समाय एव सामायिकं संयमविशेषं त्रिविधं रूपं सम्यक्त्वश्रुतचारित्रमित्यर्थः । अथवा त्रिविधं मनोवाक्कायकरणकारापणानुमतिभिः करोमि सर्वमपि निराकारमाकाररहितं मरणं चतुर्विंशत्याकारैः [रहितम् इत्यर्थः ।।१९।।
सोम० अथ तदनशनमङ्गीकुर्वन् किमभिधत्ते इत्याह - यत् किमपि दुश्चरितमकृत्यं साधुनामनासेव्यं तत् सर्वं व्युत्सृजामि त्यजामि त्रिविधेन मनसा वाचा कायेन च तथा सामायिकं चारित्रविशेषं त्रिविधं ज्ञानश्रद्धानक्रियारूपं सम्यक्त्वश्रुतसर्वविरतिसामायिकरूपमित्यर्थः । अथवा त्रिविधं मनोवाक्कायकरणकारणाऽनुमतिभिः करोमि सर्वमपि निराकारमाकाररहितं मरणसमयस्य प्रत्यासन्नत्वान्निरपवादमित्यर्थः, पूर्वं तु दर्शनज्ञानादिभिः कल्पिकासेवाविषयैश्चतुर्विंशत्याकारैः सापवादमप्यासीदिति भावः ।।१९।।
गुण तमङ्गीकुर्वन् किं किमभिधत्त इत्याह - यत् किमपि दुश्चरितमकृत्यं साधुभिरनासेव्यं तत् सर्वं व्युत्सृजामि । समानि ज्ञानादीनि तेषामायो लाभः समायः त्रिविधं ज्ञानश्रद्धानक्रियारूपं सर्वमपि निराकारमाकाररहितं मरणस्यासन्नत्वान्निरपवांदम् ।।१९।।
बझं अभिंतरं उवहिं सरीराइ सभोयणं । मणसा वय-काएहिं सव्वं भावेण वोसिरे ।।२०।। बाह्यमभ्यन्तरमुपधिं शरीरादि सभोजनम् ।
मनोवाक्कायैः सर्वं भावेन व्युत्सृजामि ।।२०।। भुवः अन्यच्च यत्करोति तदाह - बहिर्भवं बाह्यं पात्राद्युपकरणम् । अभिरन्तर्भवमभ्यन्तरं कषायादिलक्षणम् । उपधिं परिग्रहं शरीरादि च । सह भोजनेन वर्त्तत इति सभोजनम् । उपधीयते पोष्यते जीवोऽनेनेत्युपधिः । अथवा उपधीयते जीवो दुर्गतौ स्थाप्यतेऽनेनेत्युपधिविशेषणानि । मनोवाक्कायैः सर्वमुपधिं भावतो व्युत्सृजामीत्यर्थः ।।२०।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org