________________
खण्ड: - १ गा. १७, १८
सव्वदुक्खप्पहीणाणं सिद्धाणं अरहओ नमो ।
सहे जिrपन्नत्तं पच्चक्खामि य पावगं ।। १७ ।। प्रक्षीणसर्वदुःखेभ्यः सिद्धेभ्योऽर्हद्भ्यो नमः ।
श्रद्दधे जनप्रज्ञप्तं प्रत्याख्यामि च पापकम् ।।१७।।
भुव० कृतसाकारप्रत्याख्यानश्च किं भणति ? किञ्च श्रद्धत्त इत्याह ।।१७।।
सोम० कृतसाकारप्रत्याख्यानः किं भणतीत्याह - प्रक्षीणानि सर्वदुःखानि येषां ते तथा तेभ्यः, क्रान्तस्य परनिपातः प्राकृतत्वात् । सिद्धेभ्यो नमो नमस्कारोऽस्तु । न केवलं सिद्धेभ्यः किन्त्वर्हद्भ्यश्च तीर्थकरेभ्यश्च नमस्कारो भवतु । तथा श्रद्दधामि जिनप्रज्ञप्तं सर्वं तत्त्वमिति शेषः, तथा प्रत्याख्यामि च पापकं निन्द्यं कर्म सर्वमित्यर्थः ।।१७।।
गुण० प्रक्षीणानि सर्वदुःखानि येषां तेभ्यः सिद्धेभ्यो नमोऽस्तु, अर्हद्भ्यश्च नमोऽस्तु । श्रद्दधामि जिनप्रज्ञप्तं तत्त्वमिति शेषः । प्रत्याख्यामि च पापकं निन्द्यं कर्म सर्वमित्यर्थः । उक्तं साकारप्रत्याख्यानम् ।।१७।।
नमुत्थु धुयपावाणं सिद्धाणं च महेसिणं ।
संथारं पडिवज्जामि जहा केवलिदेसियं ।। १८ ।।
४९
नमोऽस्तु धूतपापेभ्यः सिद्धेभ्यश्च महर्षिभ्यः ।
संस्तारं प्रतिपद्ये यथा केवलिदेशितम् ।। १८ ।।
भुव नमो नमस्कारोऽस्तु । धुतं गतं पापमष्टप्रकारं कर्म येषां ते तथा तेभ्यः सिद्धेभ्यः । चशब्दात्तीर्थकरेभ्यश्च महर्षीणां गणधरादीनां महर्षिभ्यः छट्ठी विभत्ती भन्नइ उत्थी इति ज्ञेयम् । संस्तारकं रचितदर्भसंस्तारकादिविधिरत्रानशनं [ विधिनात्रानशनं क्रियते तदुपचारात्संस्तारकमनशनं तं प्रपद्येऽहं यथा केवलिनिदर्शितमिति ।। १८ ।।
सोम० उक्तं साकारप्रत्याख्यानमथ पण्डितः क्षपको मुक्तजीविताशो भक्तप्रत्याख्यानं कुर्वन् यद् भणति तदाह - नमो नमस्कारोऽस्तु । धुतं गतं पापमष्टप्रकारं कर्म येषां ते तथा तेभ्यः सिद्धेभ्यः । चशब्दात् तीर्थकरेभ्यश्च तथा महर्षयो गणधरादयस्तेभ्यश्च चतुर्थीस्थाने षष्ठी प्राकृतवशात् । संस्तारकं दर्भसंस्तारकं दर्भसंस्तारकादिविधिना विधीयमानमुपचारादनशनमुच्यते । तदनशनं प्रतिपद्येऽहं तथा केवलिभिर्दर्शितं प्रकाशितं तं तथेति शेषः ।। १८ ।।
गुण० अथ पण्डितक्षपको भक्तप्रत्याख्यानं कुर्वन् यद् भणति तदाह - नमोऽस्तु धुतं गतं पापमष्टप्रकारं कर्म येषां तेभ्यः सिद्धेभ्यः । च शब्दात्तीर्थकरेभ्यश्च महर्षीणां च गणधरादीनां महर्षिभ्यः, छट्ठविभत्ती भन्नइ चउत्थी इति ज्ञेयम् । संस्तारकं रचितदर्भसंस्तारकादिविधिना यदनशनं क्रियते तदप्युपचारतः संस्तारकमनशनं तं प्रपद्येऽहं यथा केवलिभिर्दर्शितमिति । । १८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org