________________
४८
आहारभयपरिग्गहमेहूणसुहदुक्खमोहवितिगिच्छा । कोहमणमायलोभे सोगे लोगे य धम्मोधे । । १ । । [ प्रवचनसारो०९२५ ]
तास्सर्वास्त्यजामि । गौरवं त्रिप्रकारमपि पूर्वं वर्णितम् । कषायाश्च षोडशाऽपि । सव्वं चेति । चैवशब्दोऽपिशब्दार्थे । सर्वमपि च ममत्वं प्रतिबन्धं मूर्च्छा त्यजामि । सर्वमपि च दृष्टाभाषितसाधु श्रावकजनं च क्षमयामीत्यर्थः ।।१५।।
सोम० यत् त्यजति तदाह सर्वं चतुर्विधमाहारविधिं त्यजामि, संज्ञाश्चतस्र आहार-भयमैथुन-परिग्रहरूपाः क्रोधमानादिभेदेन बहुविधा वा त्यजामीति सर्वत्र सम्बन्धः, गौरवं त्रिप्रकारं ऋद्ध्यादिरूपं च कषायाश्च षोडशाऽपि चेवशब्दोऽपिशब्दार्थः सर्वमपि च ममत्वं प्रतिबन्धं मूर्छामित्यर्थः, त्यजामि । तथा सर्वमपि दृष्टमाभाषितं साधुश्रावकजनं क्षमयामि ।। १५ ।।
-
आतुरप्रत्याख्यानप्रकीर्णकम् गा. १६
गुण सर्वं चतुर्विधमाहारविधिं त्यजामि । संज्ञाश्चतस्र आहारभयमैथुनपरिग्रहरूपाः, दश वाऽऽहारभयमैथुनपरिग्रहक्रोधमानमायालोभलोकओघरूपास्तास्सर्वास्त्यजामि । गौरवं त्रिपक्राम् । कषायाश्च षोडशापि । चैवशब्दोऽपिशब्दार्थे सर्वमपि च ममत्वं मूर्च्छा त्यजामि । सर्वं जीवजातं क्षयामि ।। १५ ।।
हुज्जा इमंमि समए उवक्कमो जीवियस्स जइ मज्झ । एयं पच्चक्खाणं विउला आराहणा हेउ ( होउ ) ।। १६ ।।
भूयादस्मिन् समये उपक्रमो जीवितस्य यदि मम । एतत्प्रत्याख्यानं विपुलाऽऽराधनाहेतुः (भवतु ) । । १६ ।।
भुव० क्षामणानन्तरं च किं भणतीत्याह भूयादस्मिन्नवसरे । उपक्रमणं उपक्रमो जीवितस्य प्राणधारणस्य यदि मम तदेतदेव प्रत्याख्यानं विपुलाराधनाहेतुर्भवत्वित्यर्थः ।। १६ ।।
भूयादस्मिन्नवसरेऽस्यामापदीत्यर्थ उपक्रमो व्ययो
Jain Education International 2010_02
-
सोम० क्षामणानन्तरं किं भणतीत्याह जीवितस्य प्राणधारणस्य यदि मम तदेतदेव पूर्वकृतं प्रत्याख्यानं विपुलाराधनाहेतुर्भवतीति शेषः । सन्ध्यभावः प्राकृतत्वादथवा 'विउला आराहणा होउ' इति पाठेतदेव प्रत्याख्यानं विपुलाराधना. हेतुत्वाद् विपुलाराधना भवत्वित्यर्थः ।।१६।।
गुण० भूयादस्मिन्नवसरे उपक्रमो व्ययो जीवितस्य यदि ममैतदेव प्रत्याख्यानं विपुला - राघनाहेतुर्भवत्वित्यर्थः ।।१६।।
1
For Private & Personal Use Only
www.jainelibrary.org