SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ खण्ड: - १ गा. १४, १५ मलीकवचनं च सर्वं मृषावादं प्रत्याख्यामि सर्वं स्वाम्यदत्तजीवादत्तादिभेदभिन्नमदत्तादानं, सर्वशब्दोऽग्रेऽपि योज्यते, मिथुनस्य स्त्री-पुंसलक्षणस्य कर्म मैथुनमब्रह्म तत् सर्वमौदारिकवैक्रियविषयं, मनोवाक्कायकृतकारितानुमतिभेदभिन्नं सर्वं परिग्रहं चैवशब्दाच्छेषपापस्थानान्यपि प्रत्याख्यामीति सम्बन्धः ।। १३ ।। सम्मं मे सव्वभूएस, वेरं मज्झ न केई । आसाओ वोसिरित्ताणं समाहिमणुपालए । । १४ ।। साम्यं मे सर्वभूतेषु वैरं मम न केनचित् । आशा व्युत्सूज्य समाधिमनुपालये ।। १४ ।। भुव० पुनः किं भणति ? समस्य भावः साम्यं समता मे मम सर्वभूतेषु सर्वजीवेषु । वैरं विरोधो मम न केनापि साकम् । आशाः सर्वाभिलाषरूपा आहारोपकरणगणस्वजनशरीरादिकाः व्युत्सृज्य त्यक्त्वा समाधिं मनःस्वास्थ्यं चतुर्विधां वा विनय - श्रुत-तपआचाररूपं वाऽनुपालयेऽहमित्यर्थः ।।१४।। सोम० पुनः किं भणति ? समस्य भावः साम्यं समता मे मम सर्वभूतेषु सकलजीवेषु अस्तीति शेषः, वैरं विरोधो मम न केनापि साकम् । आशा इच्छा आहारोपकरण- गण - स्वजनशरीराद्यभिष्वङ्गरूपाः सर्वा व्युत्सृज्य त्यक्त्वा समाधिं मनःस्वास्थ्यं विनय- श्रुत-तपआचारसमाधिरूपं वा समाधिमनुपालयेऽहमिति सम्बन्धः । । १४ । । गुण समस्य भावः साम्यं समता मे मम सर्वजीवेषु वैरं विरोधो मम न केनापि साकम्। आशाः सर्वाभिलाषरूपा व्युत्सृज्य त्यक्त्वा समाधिं मनःस्वास्थ्यमनुपालयेऽहं मनोवाक्कायैः ।।१४।। सव्वं चाऽऽहारविहिं सन्नाओ गारवे कसाए य । सव्वं चेव ममत्तं चएमि सव्वं खमावेमि ।। १५ ।। ४७ सर्वमाहारविधिं च संज्ञा गौरवाणि कषायाश्च । सर्वमपि ममत्वं त्यजामि सर्वं क्षमयामि ।। १५ ।। भुव० यच्च व्युत्सृजति तदेवाह - सर्वं चतुर्विधमाहारविधिं त्यजामि । संज्ञाश्चतस्त्र आहारभय-मैथुन - परिग्रहरूपा:, दश वाहार-भय-मैथुन - परिग्रह- क्रोध- मान-माया-लोभ-लोक ओघरूपाः । षोडश वा Jain Education International 2010_02 - For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy