SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ४६ आतुरप्रत्याख्यानप्रकीर्णकम् गा. १३ तस्यां जीवितसापेक्षस्य साकारप्रत्याख्यानमाह - एषोऽहं सर्वसङ्घप्रत्यक्षं करोमि विदधामि प्रणामं नमस्कारम् । कस्य ? वर्तमानतीर्थाधिपतेरासन्नोपकारिण: जिनवरवृषभस्य सामान्यकेवलिश्रेष्ठस्य वर्धमानाभिधस्य देवस्य । न केवलमस्य, शेषाणामपि वृषभादिजिनानां चशब्दादतीतानागतादिजिनानां च । कथम्भूतानां जिनानां सह गणधरैर्वर्त्तन्त इति सगणधरास्तेषां सगणधराणां सर्वेषाम् । अत्राऽपि चशब्दान्निज[निज]सङ्घसमेतानाम् ।।१२।। सोम0 अथ साधोरुद्यतविहारिणः कदाचित् देवादिकृतापत् स्यात्, नद्यादौ रोगादौ वाऽऽपद् भवेत्, तस्यां जीवितसापेक्षः सन् यथा साकारप्रत्याख्यानं कुरुते तथा विधिमाह- ‘एस करेमि' एषोऽहं सर्वसङ्घप्रत्यक्षं करोमि । कम् ? प्रणामं नमस्कारम, कस्य ? वर्तमानतीर्थाधिपतेर्जिनवरवृषभस्य सामान्यकेवलिश्रेष्ठस्य श्रीवर्धमानस्य, तथा शेषाणामपि ऋषभादिजिनानां चशब्दादतीतानागतजिनानां च कथम्भूतानाम् ? सह गणधरैर्वर्त्तन्त इति सगणधरास्तेषां सर्वेषां पुनश्चशब्दान्निजनिजसङ्घयुतानाम् ।।१२।। गण० एषोऽहं सर्वसङ्घप्रत्यक्षं करोमि नमस्कारं जिनवरवृषभस्य सामान्यकेवलिश्रेष्ठस्य वर्धमानाभिघस्य शेषाणामपि वृषभादिजिनानां चशब्दादतीतानागतादिजिनानां, सह गणधरैर्वर्तन्त इति सर्वेषामत्रापि चशब्दान्निजनिजसङ्घसमेतानाम् ।।१२।। सव्वं पाणारंभं पच्चक्खामि त्ति अलियवयणं च । सव्वमदिनादाणं मेहुन्न परिग्गहं चेव ।।१३।। सर्वं प्राणारम्भं प्रत्याख्याम्यलीकवचनं च । सर्वमदत्तादानं मैथुनं परिग्रहं चैव ।।१३।। भुवः अथ तीर्थकृत्गणधरकृतनमस्कारो व्रतोच्चारं कुर्वन्निदमाह- प्राणानामारम्भं सर्वं निरवशेषं पच्चक्खामित्ति प्रत्याचक्षे "पढमे भंते महव्वए पाणाइवायाओ वेरमणं, सव्वं भंते पाणाइवायं पच्चक्खामीत्यादि" व्रतदण्डकमुच्चरतीत्यर्थः । अलीकवचनं प्रत्याख्यामि मृषावादमित्यर्थः । सर्वमदत्तादानं स्वामि-जीव-तीर्थकर-गुरुभिरवितीर्णं तृतीयव्रतमित्यर्थः । सर्वं मिथुनस्य स्त्रीपुंसलक्षणस्य भावं कर्म वा मैथुनमब्रह्म तन्मनोवाक्कायकृतकारितानुमतिभिरौदारिकवैक्रियशरीरविषयैरष्टादशधा । सर्वं परिग्रहं चतुर्विंशतिधा । चैव शब्दात् शेषाणि स्थानान्यपि प्रत्याख्यामीत्यर्थः ।।१३।। सोम0 अथ कृतनमस्कारो व्रतोच्चारं करोति । प्राणानाम् आरम्भं विनाशादिरूपं प्राणारम्भं सर्वं निरवशेषं प्रत्याचक्षे “पढमे भंते महव्वए..." इत्यादिव्रतदण्डकमुच्चरतीत्यर्थः । एव Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy