________________
खण्ड:-१ गा. १२
भुव० अथ कस्यामवस्थायां जातानीत्याह - पसुत्तस्स वा त्ति प्रसुप्तस्य निद्रां गतस्य पडिबुद्धस्स वा प्रतिबुद्धस्य जाग्रतः । जो मे कओ देवसिओ राइओ यो मे मया कोऽपि बहुर्वाल्पो वा दिवसे जातो दैवसिको रात्रौ भवो रात्रिकः । उत्तमढे त्ति उत्तमार्थे ज्ञानादौ अइक्कमो त्ति अतिक्रमणमतिक्रम आधाकर्माद्यामन्त्रणादौ प्रतिश्रवणरूपः । वइक्कमो त्ति विशेषेणातिक्रमणं व्यतिक्रम: तस्यैव ग्रहणाय पदभेदरूपः । अइयारो त्ति अतीचरणमतीचार आधाकर्मादिग्रहणरूपः । अणायारो त्ति आचरणमाचारस्तत्परिहरणपरिष्ठापनरूपो न आचारोऽनाचारस्तद्भक्षणमित्यर्थः । जात इति पदाध्याहारः । तस्स मिच्छामि दुक्कडं ति तस्य सर्वस्याऽनाचारस्य मिथ्या दुष्कृतं भवतु यन्मया दुष्कृतं तन्मिथ्या भवतु । अयं च मिथ्यादुष्कृतविधिर्बालपण्डितमरणे, पण्डितमरणे, पण्डितपण्डितमरणे च साधारण एव।
सोम० अथ कस्यामवस्थायामेतानि ध्यानानि जातानीत्याह- प्रसुप्तस्य निद्रां गतस्य, 'पडिबुद्धस्स वा' प्रतिबुद्धस्य जाग्रतो वा यो मे मम कोऽपि 'बहर्वाऽल्पो वा' दिवसे जातो दैवसिको, रात्रौ भवो रात्रिकः 'उत्तमट्टे 'त्ति उत्तमार्थे ज्ञानादौ । 'अइक्कमो' अतिक्रमणमतिक्रम आधाकर्माद्यामन्त्रणादौ प्रतिश्रवणरूपः, 'वइक्कमो' विशेषेणातिक्रमणं व्यतिक्रम आधाकर्मादर्ग्रहणाय पदभेदरूपः, 'अइयारो' अतिचार आधाकर्माद्याहारग्रहणरूपः, आचारस्तत्परिहरण-परिष्ठापनरूपः, 'अणायारो' अनाचारस्तद्भक्षणमित्यर्थः, जात इति पदाध्याहारस्तस्य सर्वस्य प्रागुक्तस्यातिक्रमादेमिथ्या दुष्कृतं भवतु । यन्मया दुष्कृतं कृतं तन्मिथ्या भवत्वित्यर्थः । अयं च मिथ्यादुष्कृतविधिर्बालपण्डितमरणे, पण्डितमरणे, पण्डितपण्डितमरणे च साधारण एव ।।११।।
गुण. कस्यामवस्थायां जातानीत्याह - प्रसुप्तस्य निद्रां गतस्य, प्रतिबुद्धस्य जाग्रतो यो मे मया कोऽपि बहुर्वाल्पो वा दैवसिको रात्रिकः । उत्तमार्थे ज्ञानादौ अतिक्रम आधाकर्माद्यामन्त्रणादौ प्रतिश्रवणरूपः, व्यतिक्रमस्तस्यैव ग्रहणाय पदभेदरूपः, अतिचार आधाकर्मादिग्रहणरूपः, अनाचारस्तद्भक्षणमित्यर्थः । जात इति पदाध्याहारः तस्य सर्वस्यानाचारस्य मिथ्यादुष्कृतं भवतु ।।११।।
एस करेमि पणामं जिणवरवसहस्स वद्धमाणस्स । सेसाणं च जिणाणं सगणहराणं च सव्वेसि ।।१२।। एष करोमि प्रणामं जिनवरवृषभस्य वर्द्धमानस्य ।
शेषेभ्यश्च जिनेभ्यः सगणधरेभ्यश्च सर्वेभ्यः ।।१२।। भुव० अथ साधोरुद्यतविहारेण विहरतः कदाचिद्देवादिकृताऽऽपत्स्यात् । नद्यादौ रोगादौ वा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org