SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान-६३ गा. ११ ६३-अमुत्तिमरणंझाणे [अमुक्तिमरणध्याने] भुव० मोचनं मुक्तिः संसाराच्छिवगतिरूपा न मुक्तिरमुक्तिस्तस्य मरणममुक्तिमरणं तस्य ध्यानं तस्मिन्। यथा मुक्तिविघ्नकरमेतन्निदानं मा कुरु । पुन: पुनश्चित्रेण निवार्यमाणस्यापि एतां विभूतिमननुभूय मुक्तिमपि न स्पृहयेयमित्याद्यशुभभावेन निदानं कुर्वतः संभूतस्येव यथा वा लोके वंशार्जुनस्योक्तिः । वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्विषाम् । निर्वाणमपि मन्येहमन्तरायं जयश्रियः ।। इति [किरात-११-६९] ।।६३।। क्वचित्पाठे रूवंझाणे इत्यधिकमपि पदं दृश्यते । तत्र रुप्यते निरीक्ष्यते आदर्शादिष्विति रूपं तस्य ध्यानं तस्मिन् तच्च द्विधा स्वरूपध्यानं पररूपध्यानं वा । तत्र मदीयरूपं शोभनमिति देवाभ्यां प्रशंसितस्य सनत्कुमारस्येव । पररूपध्यानं तु गोपदारकाणामिवाभीरकन्यारूपातिशयात्क्षिप्तचेतसां तच्छकटनिकटउत्पथेन शकटखेटनेन भग्ननिजशकटानाम् । चण्डप्रद्योतस्य वा अङ्गारवत्यादिरूपाणि चित्रफलकलिखितानि वीक्षमाणस्य पररूपध्यानं भवति । तदेतानि त्रिषष्ठान्यपि ध्यानान्यातरौद्रस्वभावानीति मिथ्यादुष्कृतविषयाणि । सोम० अमुत्तिमरणं झाणे - मुक्तिर्मोक्षगतिर्न मुक्तिरमुक्तिः संसारसुखाभिलाष इत्यर्थः, तेन मरणं तस्य ध्यानम्, “मुक्तिविघ्नकरम् एतन्निदानं मा कुरु" इति पुनः पुनश्चित्रेण भ्रातृसाधुना निवार्यमाणस्यापि “एतां चक्रिविभूतिमननुभूय मुक्तिमपि न स्पृहयेयम्,” इत्याद्यशुभभावेन निदानं कुर्वतः संभूतस्येव तस्मिन् ।।६३।। ___ एतानि त्रिषष्टिरपि ध्यानानि आर्त्तरौद्रस्वभावानि मिथ्यादुष्कृतविषयाणि । अनुस्वाराश्च सर्वध्यानपदेषु अलाक्षणिका ज्ञेयास्तल्लोपश्च कार्यः । गुण. मुक्तिः संसाराच्छिवगतिरूपा । न मुक्तिरमुक्तिस्तस्या मरणममुक्तिमरणं तस्य ध्यानं यथा मुक्तिविघ्नकरमेतन्निदानं मा कुरु [इति] पुनः पुनर्निवार्यमाणस्यापि एतां विभूतिम[न]नुभूय मुक्तिमपि न स्पृहयेयमित्याद्यशुभभावेन निदानं कुर्वतः सम्भूतस्येव ।।६३।। पसुत्तस्स वा पडिबुद्धस्स वा जो मे कोई देवसिओ राइओ उत्तमढे अइक्कमो वइक्कमो अइयारो अणायारो तस्स मिच्छा मि दुक्कडं ।।११।। प्रसुप्तस्य वा प्रतिबुद्धस्य वा यो मया कश्चिदैवसिको रात्रिक उत्तमार्थेऽतिक्रमो व्यतिक्रमोऽतिचारोऽनाचारस्तस्य मिथ्या मे दुष्कृतम् ।।११।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy