SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ खण्ड:-१ दुर्ध्यान-६१, ६२ सोम० रसगारवं झाणे - रस्यते आस्वाद्यते पुष्ट्यर्थमिति रसः रसनेन्द्रियाप्यायक रसस्तेन गौरवम्, “यथा मम रसवतीरसास्तथा किमन्यस्यापि सन्तीत्यभिमानरूपं" तस्य ध्यानम्, उदकज्ञातोक्तजितशत्रुराजस्येव सुबुद्धिमन्त्रिणोऽग्रे रसवतीरसान् प्रशंसतः, तस्मिन् ।।६० ।।। गुण. रस्यते आस्वाद्यते पुष्टयर्थमिति रसः रसनेन्द्रियाऽऽप्यायिकस्तिक्तादिः ।।६० ।। ६१-सायागारवंझाणे [सातागौरवध्याने] भुव० सातं सुखं तेन गौरवं तस्य ध्यानं तस्मिन् । सातगो यथा अहमेव सुखीत्यभिमानः, शशिराजस्येव 'नरयत्थो ससिराया' इत्यस्मिन् प्रबन्धे ।।६१।। सोम० सातागौरवं झाणे - सातं सुखं तेन गौरवं गर्वो यथाऽहमेव सुखीत्यभिमानस्तस्य ध्यानम्, "नरयत्थो ससिराय" इति गाथोक्तशशिराजस्येव तस्मिन् ।।६१।। गुण सातं सुखं तेन गौरवं तस्य ध्यानं तस्मिन् सातगर्यो यथा-अहमेव सुखीत्यभिमानः ।।६१।। ६२-अवेरमणंझाणे [अविरमणध्याने] भुव० विरतिविरमणं न विरमणमविरमणम् । तस्य ध्यानं तस्मिन् । यथा - मा भूत् पुत्रयोविरतिबुद्धिरित्यङ्गीकृतामपि देशविरतिं परित्यज्य प्रान्तग्रामसमाश्रितयोः । एए पव्वइयागादिक्करुवाणि घेत्तुं मारंति । पच्छा तेसिं मंसं खाइंति तं मा तुब्भे एएसिं अल्लियह ।। इत्येवं पुनः पुनस्तनयविहितविप्रतारणयो/गुयशयोरिव । मूकजीवदेवेन प्रतिबोध्यमानस्याऽपि मुहुर्मुहुविरतिं परित्यजतस्तद्भातुरिव वा, मेतार्यस्येव वा ।।६२।। सोम० अवेरमणं झाणे - न विरमणमविरमणं तस्य ध्यानम्, मा भूत् पुत्रयोविरतिबुद्धिरित्यङ्गीकृतामपि देशविरतिं परित्यज्य प्रान्तग्राममाश्रितयोः, “एते साघवो मांसाशिनो ! राक्षसा! इत्येतत्पाद्यं न गन्तव्यम्”, इति तनयविहितविप्रतारणयो गुयशयोरिव, मूकजीवस्यापि देवेन प्रतिबोध्यमानस्यापि मुहुर्मुहुविरतिं परित्यजतस्तद्भातुरिव मेतार्यस्येव वा तस्मिन् ।।६।। गुण विरतिविरमणं न विरमणम् [अविरमणं] तस्य ध्यानं तस्मिन् ।।६२।। JainEducation International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy