SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान- ५९, ६० कर्मोदयप्रत्ययेन वा ध्यानं कर्मोदयप्रत्ययध्यानम् प्रथमं शुभपरिणामवतोऽपि पश्चात् कुतश्चित् कर्मोदयतोऽशुभपरिणामत्वं पर्यन्तकाले विष्णोरिव तस्मिन् ।। ५८ ।। ४२ गुण कर्मोदयप्रत्ययं कर्मोदयप्रत्ययेन ध्यानम् । प्रथमं शुभपरिणामवतोऽपि पश्चात् कुतश्चित् कारणात् कर्मोदयतोऽशुभपरिणामत्वं पर्यन्तकाले विष्णोरिव ।। ५८ ।। ५९ - इडिगारवंझाणे ऋद्धिगौरवध्याने भुव० ऋद्धौ च वृद्धो अर्घनम् ऋद्धिः । राज्यैश्वर्यादिप्राप्तिः । गुरोर्भावः कर्म वा गौरवं तच्च द्विधा द्रव्यतो भावतश्च द्रव्यतो वज्रादेर्भावतोऽभिमानलोभलक्षणाशुभभाववत आत्मन: । तत्राऽपि भावगौरवम् ऋद्ध्या आचार्यत्वादिप्राप्तिलक्षणया वा गौरवम् ऋद्धिगौरवम् । आचार्यत्वादिप्राप्तलक्षणया [ ऋद्ध्या ] अभिमानद्वारेण गौरवम् । तदप्राप्त वा तत्प्रार्थनाद्वारेण आत्मनोऽशुभभावगौरवम् ऋद्धिगौरवं तस्य ध्यानं तस्मिन् दशार्णभद्रस्येव । गत्तो हिमवंतो अन्नत्तो साइवाहणो राया । समभारभरुक्ता तेण न पल्लट्टए पुहवी । । १ । । इत्येवं वदतो वा ।। प्रतिष्ठानपुराधिपतेरिव ।। ५९ ।। सोम० इड्डिगारवं झाणे - राज्यैश्वर्यादिरूपा ऋद्धिस्तया गौरवम् आत्मोत्कर्षरूपं तस्य ध्यानम्, दशार्णभद्रस्येव तस्मिन् ।।५९।। गुण ऋद्धिः राज्यैश्वर्यादिप्राप्तिः । गुरोर्भावो गौरवं तच्च द्विधा द्रव्यभावतो द्रव्यतो वज्रादेर्भावतोऽभिमानतः ।। ५९ ।। ६० - रसगारवंझाणे [ रसगौरवध्याने] पञ्चधा भुव रस्ते आस्वाद्यते पुष्ट्यर्थमिति रसः । रसनेन्द्रियाप्यायिकस्तिक्तादिः । स च तत्र श्लेष्मनाशकृत्तिक्तः । विषाद्युच्छेदनकृत्कटुकः । अन्नरुचिस्तम्भनकृत्कषायः । आश्रवणक्लेदनकृदाम्लः । आह्लादनगृहणकृन्मधुरः । तथा वर्णपञ्चकोत्कर्षकारिलाक्षासारणमिव सर्वरसोत्कर्षकृत्संसर्गजः षष्ठो लवणरसः । रसस्य गौरवं तस्य ध्यानं तस्मिन् । रसगर्वो यथा मम रसवतीरसास्तथा किमन्यस्याऽपि सन्तीत्यभिमानः, उदकज्ञातोक्तजितशत्रुराजस्येव सुबुद्धिं प्रति रसान् प्रशंसतः ।।६०।। - Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy