________________
खण्ड:-१ दुर्ध्यान-५५, ५६, ५७, ५८
५५-पावाणुमोयणंझाणे [पापानुमोदनध्याने] भुव० एतेषां चतुर्णाम् उदाहरणानि उपरितनपुस्तके न सन्ति ।।५।।
सोम0 पावाणुमोयणं झाणे - पापं परस्त्रीसेवादि तस्यानुमोदनं पापानुमोदनम्, भव्यमनेनकृतमिति वदनं तस्य ध्यानम्, राजाऽन्तःपुराऽपराधिनः सनेपथ्यहतस्य “धन्य एष" इत्यनुमोदकजनानामिव तस्मिन् ।।५५।।
गुण. पापानुमोदनं भव्यमनेनकृतमिति वदनम् ।।५५ ।।
५६-अहिगरणंझाणे [अधिकरणध्याने]
भुव० अधिक्रियते दुर्गती क्षिप्यते आत्मानेनेत्यधिकरणम् । कर्मोपादानहेतुः कूपारामारहट्टघरट्टयन्त्रादिः तस्य ध्यानम् । वापीध्यानरतस्य नन्दमणिकारस्येव ।।५६।।
सोम० अहिगरणं झाणे - अधिक्रियते दुर्गतौ क्षिप्यते आत्माऽनेनेति अधिकरणं पापोत्पत्तिहेतुः स्थानं तस्य ध्यानमधिकरणध्यानम्, वापीध्यानतत्परस्य नन्दमणिकारस्येव तस्मिन् ।।५६ ।।
गुण. अधिक्रियते दुर्गतौ क्षिप्यते आत्मानेनेत्यधिकरणं कर्मोपादानहेतुः ।।५६।।
५७-असमाहिमरणंझाणे [असमाधिमरणध्याने]
भुव० समाधानं समाधिर्न समाधिरसमाधिना एव म्रियतामिति चिन्तनमसमाधिध्यानं तस्मिन् । स्कन्दकाचार्य प्रति क्षुल्लकं प्रथमं यन्त्रपीलयत: पालकस्येव ।।५७।।।
सोम० असमाहिमरणं झाणे - असमाधिना एष म्रियतामिति चिन्तनमसमाधिमरणध्यानम्, स्कन्दकाचार्य प्रति क्षुल्लं प्रथमं यन्त्रे पीलयतोऽभव्यपालकस्येव तस्मिन् ।।५७।।
५८-कम्मोदयपच्चयंझाणे [कर्मोदयप्रत्ययध्याने
भुव० कर्मणां उदयः प्रत्ययो हेतुर्यस्य ध्यानस्य तत् कर्मोदयप्रत्ययेन ध्यानं कर्मोदयप्रत्ययं ध्यानं तस्मिन् । प्रथमं शुभपरिणामवतोऽपि कुतश्चित् कारणात् कर्मोदयतोऽशुभपरिणामत्वं पर्यन्तकाले विष्णोरिव ।।५८।। सोम० कम्मोदयपच्चयं झाणे - कर्मणामुदयः प्रत्ययो हेतुर्यस्य ध्यानस्य तत्, कर्मोदयप्रत्ययं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org