________________
आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान-५१, ५२, ५३, ५४
सोमः परिग्गरं झाणे - परिग्रहो धन-धान्यादिरूपस्तस्य ध्यानम्, गतविभवस्य विभवार्थे चारुदत्तस्येव, मुनिपतिमुनि रुन्धतः कुञ्चिकस्येव वा तस्मिन् ।।५० ।।
गुणः परिगृह्यते स्वीक्रियत इति परिग्रहः । स बाह्याभ्यन्तरः क्षेत्रादिः क्रोधादिश्च ।।५० ।।
५१-परपरिवायंझाणे [परपरिवादध्याने)
भुवः परेषां परिवादः परपरिवादः परविकत्थनम् । परं प्रत्यसद्भूतदोषस्याविष्करणं तस्य ध्यानं परपरिवादध्यानं तस्मिन् । सुभद्रां प्रति तत्स्वशूननान्दृणामिव ।।५१।।
सोम० परपरिवायं झाणे - परं प्रत्यसद्भूतदोषाविष्करणं परपरिवादस्तस्य ध्यानम्, सुभद्रां प्रति तत् श्वश्रू-ननान्दृणामिव तस्मिन् ।।५१ ।।
गुण. परेषां परिवादः परपरिवादः परविकत्थनम् ।।५१।।
५२-परदूसणंझाणे [परदूषणध्याने] भुवः परेषां दूषणं परदूषणं परेणाकृतमपि तं प्रत्यात्मदोषचटापनम् ।।५२।।
सोम० परदूसणं झाणे - परस्याऽनपराधिनोऽप्यात्मकृतदोषचटापनं परदूषणम्, अड्गऋषि प्रति "ज्योतिर्यशाऽनेन हता" इति स्वदोषं चटापयतो रुद्रकस्येव तस्मिन् ।।५२।।
गुणः परेषां दूषणं परेणाकृतमपि तं प्रत्यात्मदोषचटापनम् ।।५२।।
५३-आरंभंझाणे [आरम्भध्याने]
सोम0 आरंभं झाणे - आरम्भः परोपद्रवस्तस्य ध्यानम्, कुरुडोत्कुरुडयोरिव, द्वीपायनस्येव वा तस्मिन् ।।५३।।
गुण0 आरम्भः परोपद्रवस्तस्य ध्यानम् ।।५३।।
५४-संरंभंझाणे [संरम्भध्याने]
सोम0 संरंभ झाणे - संरम्भो विषयादिषु तीव्राभिलाषस्तस्य ध्यानम्, जनन्युपरोधतो व्रतं पालयतोऽपि विषयाभिलाषतः क्षुल्लककुमारस्येव तस्मिन् ।।५४ ।।
गुण संरम्भः संकल्पः, विषयादिषु तीव्राभिलाषः ।।५४ ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org