________________
खण्ड:-१ दुर्ध्यान-४७, ४८, ४९, ५०
४७-अप्पसंसंझाणे [आत्मप्रशंसाध्याने]
भव० आत्मनः प्रशंसा गुणोत्कर्ष आत्मप्रशंसनं तस्य ध्यानं तस्मिन । शकडालेनाकृतप्रशंसामभिलषतो वररुचेरिव, स्वविज्ञानं वा कोशाया दर्शयतो रथिकस्येव।।४७।।
सोम. अप्पसंसं झाणे - आत्मप्रशंसा ध्यानम्, शकटालमन्त्रितो निजकृतकाव्यप्रशंसामभिलषतो वररुचेरिव, स्वविज्ञानं कोशाया दर्शयतो रथिकस्येव वा तस्मिन् ।।४७।।
गुण. आत्मप्रशंसा ।।४७ ।।
४८-परनिंदंझाणे [परनिन्दाध्याने] भुक निन्दनं निन्दा परस्य निन्दा परनिन्दा तस्या ध्यानं तस्मिन् । कूरगडुकं प्रति चतुर्णां क्षपकाणामिव ।।४८।।
सोम० परनिंदं झाणे - परस्य निन्दा परनिन्दा तस्या ध्यानम्, कूरगडुकं प्रति चतुर्णा क्षपकानामिव तस्मिन् ।।४८।।
गुण. परस्य निन्दा परनिन्दा तस्या ध्यानम् ।।४८।।
४९-परगरिहंझाणे [परगर्हाध्याने] भुव० गर्हणं गर्दा परस्य गर्दा परदोषोद्घाटनं तस्य ध्यानं तस्मिन् । सङ्घसमक्षं दुर्बलिकापुष्यमित्रं गर्हमाणस्य गोष्टामाहिलस्येव ।।४९।।
सोम० परगरिहं झाणे - परगर्हा परस्य गर्दा परसमक्षं दोषोद्घट्टनं तस्या ध्यानम्, श्रीसङ्घसमक्षं दुर्बलिकापुष्पमित्रं गर्हमाणस्य गोष्ठामाहिलस्येव तस्मिन् ।।४९।।
गुणः परस्य गर्दा परदोषोघट्टनम् ।।४९।।
५०-परिग्गहंझाणे [परिग्रहध्याने
भुवः परिगृह्यते स्वीक्रियते इति परिग्रहः । सबाह्याभ्यन्तरक्षेत्रादिः । क्रोधादिः चतुर्विंशतिधा। तस्य ध्यानं तस्मिन् । गतविभवस्य विभवार्थे चारुदत्तस्येव, मुनिपतिमुनि रुन्धन्तः कुञ्चिकस्येव ।।५०।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org