SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ खण्ड:-१ दुर्ध्यान-४७, ४८, ४९, ५० ४७-अप्पसंसंझाणे [आत्मप्रशंसाध्याने] भव० आत्मनः प्रशंसा गुणोत्कर्ष आत्मप्रशंसनं तस्य ध्यानं तस्मिन । शकडालेनाकृतप्रशंसामभिलषतो वररुचेरिव, स्वविज्ञानं वा कोशाया दर्शयतो रथिकस्येव।।४७।। सोम. अप्पसंसं झाणे - आत्मप्रशंसा ध्यानम्, शकटालमन्त्रितो निजकृतकाव्यप्रशंसामभिलषतो वररुचेरिव, स्वविज्ञानं कोशाया दर्शयतो रथिकस्येव वा तस्मिन् ।।४७।। गुण. आत्मप्रशंसा ।।४७ ।। ४८-परनिंदंझाणे [परनिन्दाध्याने] भुक निन्दनं निन्दा परस्य निन्दा परनिन्दा तस्या ध्यानं तस्मिन् । कूरगडुकं प्रति चतुर्णां क्षपकाणामिव ।।४८।। सोम० परनिंदं झाणे - परस्य निन्दा परनिन्दा तस्या ध्यानम्, कूरगडुकं प्रति चतुर्णा क्षपकानामिव तस्मिन् ।।४८।। गुण. परस्य निन्दा परनिन्दा तस्या ध्यानम् ।।४८।। ४९-परगरिहंझाणे [परगर्हाध्याने] भुव० गर्हणं गर्दा परस्य गर्दा परदोषोद्घाटनं तस्य ध्यानं तस्मिन् । सङ्घसमक्षं दुर्बलिकापुष्यमित्रं गर्हमाणस्य गोष्टामाहिलस्येव ।।४९।। सोम० परगरिहं झाणे - परगर्हा परस्य गर्दा परसमक्षं दोषोद्घट्टनं तस्या ध्यानम्, श्रीसङ्घसमक्षं दुर्बलिकापुष्पमित्रं गर्हमाणस्य गोष्ठामाहिलस्येव तस्मिन् ।।४९।। गुणः परस्य गर्दा परदोषोघट्टनम् ।।४९।। ५०-परिग्गहंझाणे [परिग्रहध्याने भुवः परिगृह्यते स्वीक्रियते इति परिग्रहः । सबाह्याभ्यन्तरक्षेत्रादिः । क्रोधादिः चतुर्विंशतिधा। तस्य ध्यानं तस्मिन् । गतविभवस्य विभवार्थे चारुदत्तस्येव, मुनिपतिमुनि रुन्धन्तः कुञ्चिकस्येव ।।५०।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy