________________
३८
आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान-४४, ४५, ४६
कन्नेसु तऊय तत्तं गोवस्स कयं तिविणिट्ठारन्ना ।
कन्नेसु वद्धमाणस्स तेण वूढा कडसलागा ।। इति ।।४३ ।। सोम पओसं झाणे - प्रद्वेषः प्रकृष्टो द्वेषस्तस्य ध्यानम्, मरुभूतिं प्रति कमठस्येव, श्रीवीरं प्रति कर्णयोः कटशलाकां क्षिपतो गोपस्येव वा तस्मिन् ।।४३।।
गुण. प्रकृष्टो द्वेषः प्रद्वेषस्तस्य ध्यानं तस्मिन् ।।४३।।
४४-फरुसंझाणे [परुषध्याने]
भुव परुषमतिनिष्ठुरं कर्म तस्य ध्यानं तस्मिन् । ब्रह्मदत्तं प्रति चुलण्या इव, युगबाहुं प्रति मणिरथस्येव वा पुष्पानयनव्याजेन सर्पघटं प्रति श्राविकां प्रेषयतस्तत्पतेरिव वा ।।४४।।
सोम० फरुसं झाणे - परुषमतिनिष्ठुरं कर्म तस्य ध्यानम्, ब्रह्मदत्तं प्रति चुलन्या इव, युगबाहुं प्रति मणिरथस्येव, पुष्पानयनव्याजेन सर्पघटं प्रति श्राविकां प्रेषयतस्यत्पतेरिव वा तस्मिन् ।।४४।।
गुण. फरुसमिति निष्ठुरं कर्म तस्य ध्यानं तस्मिन् ।।४४ ।।
४५-भयंझाणे [भयध्याने
भुव० भयं मोहान्तर्गता नोकषायरूपा प्रकृतिस्तस्य ध्यानं तस्मिन् । विहितगजसुकुमालोपसर्गस्य सोमिलस्येव वा ।।४५।।
सोम० भयं झाणे - भयं मोहान्तर्गता नोकषायरूपा प्रकृतिस्तस्य ध्यानम्, कृतगजसुकुमालोपसर्गस्य सोमिलस्येव तस्मिन् ।।४५।।
गुण. भयं मोहान्तर्गता नोकषायरूपा प्रकृतिस्तस्य ध्यानं तस्मिन् ।।४५।।
४६-रूवंझाणे [रूपध्याने
सोम0 रुवं झाणे - रूपम्, क्वचित् पाठेऽन्नरूवं झाणे इत्यधिकं पदमपि दृश्यते । तत्र रूप्यते निरीक्ष्यते आदर्शादाविति रूपं तस्य ध्यानम्, तच्च द्विधा स्वरूपध्यानं पररूपध्यानं च, मदीयं रूपं शोभनमिति स्वरूपध्यानम्, देवाभ्यां प्रशंसितस्य सनत्कुमारस्येव, पररूपध्यानं तु अङ्गारवत्यादिरूपाणि चित्रफलकलिखितानि वीक्षमाणस्य चण्डप्रद्योतस्येव तस्मिन् ।।४६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org