________________
खण्ड:-१ दुर्ध्यान-४०, ४१, ४२, ४३
४०-हिंसंझाणे [हिंसाध्याने भुक हिंसनं हिंसा महिषादिजीवमारणं तस्य ध्यानं हिंसाध्यानं तस्मिन् । कूपक्षिप्तस्य कालशौकरिकस्येव । दुःखविपाकोक्ताण्डकवणिनिर्धनकमहेश्वरदत्तापुरोहितानामिव वा ।।४०।।
सोम. हिंसं झाणे - हिंसा महिषादिजीवमारणं तस्या ध्यानम्, कूपक्षिप्तकालशौकरिकस्येव तस्मिन् ।।४।।
गण. हिंसा महिषादिजीवमारणम् ।।४०।।
४१-हासंझाणे [हासध्याने]
भुव० हसनं हासः परविप्रतारणं तस्य ध्यानं तस्मिन् । चण्डरुद्राचार्यशिष्यस्य मित्रसहितस्येव, वज्रबाहुकुमारं प्रति वा सुन्दरनृपस्येव वा ।।४।।
सोम० हासं झाणे - हसनं हासो हास्यं तस्य ध्यानम्, चण्डरुद्राचार्यशिष्यस्येव मित्रसहितस्य, वज्रबाहुकुमारं प्रति सुन्दरनृपस्येव वा तस्मिन् ।।४।।
गुण. हसनं हासः परविप्रतारणम् ।।४१।।
४२-पहासंझाणे [प्रहासध्याने]
भुव० प्रहसनं प्रहासः उपहासः निन्दास्तुतिः तस्य ध्यानं - "वंदामि ते नैमित्तिय खवगा" इति वार्त्तकमुनिं प्रति वदतश्चण्डप्रद्योतस्येव ।।४।।
सोम पहासं झाणे - प्रहास उपहासः परविप्रतारणनिन्दास्तुतिरूपः, तस्य ध्यानम्, “वन्दामि ते नेमित्तिय, खवगा..." इति वार्तकमुनिं प्रति वदतश्चण्डप्रद्योतस्येव तस्मिन् ।।४२।।
गुण. प्रहसनं प्रहास उपहासः निन्दास्तुतिः ।।४२।।
४३-पओसंझाणे [प्रद्वेषध्याने] भुव० प्रकृष्टो द्वेष: प्रद्वेषस्तस्य ध्यानं तस्मिन् । मरुभूतिं प्रति कमठस्येव, त्रिपृष्ठस्येव वा ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org