SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ खण्ड:-१ दुर्ध्यान-४०, ४१, ४२, ४३ ४०-हिंसंझाणे [हिंसाध्याने भुक हिंसनं हिंसा महिषादिजीवमारणं तस्य ध्यानं हिंसाध्यानं तस्मिन् । कूपक्षिप्तस्य कालशौकरिकस्येव । दुःखविपाकोक्ताण्डकवणिनिर्धनकमहेश्वरदत्तापुरोहितानामिव वा ।।४०।। सोम. हिंसं झाणे - हिंसा महिषादिजीवमारणं तस्या ध्यानम्, कूपक्षिप्तकालशौकरिकस्येव तस्मिन् ।।४।। गण. हिंसा महिषादिजीवमारणम् ।।४०।। ४१-हासंझाणे [हासध्याने] भुव० हसनं हासः परविप्रतारणं तस्य ध्यानं तस्मिन् । चण्डरुद्राचार्यशिष्यस्य मित्रसहितस्येव, वज्रबाहुकुमारं प्रति वा सुन्दरनृपस्येव वा ।।४।। सोम० हासं झाणे - हसनं हासो हास्यं तस्य ध्यानम्, चण्डरुद्राचार्यशिष्यस्येव मित्रसहितस्य, वज्रबाहुकुमारं प्रति सुन्दरनृपस्येव वा तस्मिन् ।।४।। गुण. हसनं हासः परविप्रतारणम् ।।४१।। ४२-पहासंझाणे [प्रहासध्याने] भुव० प्रहसनं प्रहासः उपहासः निन्दास्तुतिः तस्य ध्यानं - "वंदामि ते नैमित्तिय खवगा" इति वार्त्तकमुनिं प्रति वदतश्चण्डप्रद्योतस्येव ।।४।। सोम पहासं झाणे - प्रहास उपहासः परविप्रतारणनिन्दास्तुतिरूपः, तस्य ध्यानम्, “वन्दामि ते नेमित्तिय, खवगा..." इति वार्तकमुनिं प्रति वदतश्चण्डप्रद्योतस्येव तस्मिन् ।।४२।। गुण. प्रहसनं प्रहास उपहासः निन्दास्तुतिः ।।४२।। ४३-पओसंझाणे [प्रद्वेषध्याने] भुव० प्रकृष्टो द्वेष: प्रद्वेषस्तस्य ध्यानं तस्मिन् । मरुभूतिं प्रति कमठस्येव, त्रिपृष्ठस्येव वा । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy