________________
आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान- ३८, ३९, ४०
सोम० अणाविलं झाणे - अणम् ऋणं तेनाविलः कलुष ऋणाविलस्तस्य ध्यानम्, तैलकर्षस्त्र्या
यतिभगिन्या इव तस्मिन् ।। ३७।।
गुण० अणम् ऋणं तेन आविलः कलुष ऋणार्त्तस्तस्य यद् ध्यानम् ।। ३७ ।।
३६
३८ - वेरंझाणे [वैरध्याने]
भुव० वैरं पितृमातृवधादिसमुत्थं, राज्यापहारादिसमुद्भवं वा वंशानुयायि भवान्तरानुयायि वा परशुरामसुभूमादीनामिव सुदाढदेवस्य वा भगवन्तं प्रति, त्रिपृष्ठनिहतसिंहजीवस्य कपिलबटोवरं प्रति । त्रिपृष्ठभवे याऽन्तपुरिकाऽपमानिता सैव शालिशीर्षग्रामोद्यानव्यन्तरी सती तापसीरूपेण माघमासे भगवति स्मृतवैरा जटाभिरार्द्राभिर्जलोपसर्गं कुर्वती तस्या इव । सुदर्शनं प्रति वा अभयादेव्या व्यन्तरीभूतायाः ।। ३८ ।।
सोम० वेरं झाणे - वैरं मातृपित्रादिवधोत्थं राज्यापहारदिभवं वा तस्य ध्यानम्, परशुरामसुभूमादीनामिव भवान्तरानुयायि वा वैरं त्रिपृष्टनिहतसिंहजीवस्य कपिलबटोर्वीरं प्रतीव, सुदर्शनं प्रति वाऽभयादेव्या व्यन्तरीभूतायास्तस्मिन् ।।३८ ।।
गुण वैरं पितृमातृवधादिसमुत्थं राज्यापहारदिसमुद्भवं वा ।। ३८ ।।
३९ - वियक्कंझाणे [वितर्कध्याने
भुव० वितर्कणं वितर्क ऊहः । कथं राज्यादि ग्रहीष्य इति चिन्ता । वितर्कस्य ध्यानं तस्मिन् । नन्दराज्यं जिघृक्षोचाणक्यस्येव । उदयनमपजिहीर्षोस्तदमात्यस्य यौगन्धरायणस्येव वा ।।३९॥
सोम० वियक्कं झाणे - वितर्क ऊहः, कथं राज्यादि ग्रहीष्ये ? इति चिन्ता तस्य ध्यानम्, नन्दराज्यं जिघृक्षोश्चाणक्यस्येव तस्मिन् ।। ३९ ।।
गुण० वितर्कः ऊहः, कथं राज्यादि ग्रहीष्य इति चिन्ता ।। ३९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org