________________
खण्ड:-१ गा. ३५, ३६, ३७
सोम० अणट्ठदंडं झाणे - अनर्थदण्डो निष्प्रयोजणं हिंसादिकरणम्, तस्य ध्यानम्, दुर्दान्तमत्ततया द्वैपायनं खलीकुर्वतां शाम्बादीनामिव, चक्रमण्डलीसर्पविशेषरूपां नतो गङ्गदत्तस्येव, विष्णु-श्रीदेवीस्वर्गसन्देशकथननिपुणस्य वाचालस्येव वा तस्मिन् ।।३४ ।।
गुण. अनर्थदण्डो निष्प्रयोजनप्राणिघातनम् ।।३४ ।।
३५-आभोगंझाणे [आभोगध्याने]
भुव० आभोगो ज्ञानपूर्वको व्यापारस्तस्य ध्यानं तस्मिन् । ब्राह्मणनयनाभोगे फलान्यपि मृद्गतो ब्रह्मदत्तस्येव ।।३५।।
सोम. आभोगं झाणे - आभोगो ज्ञानपूर्वको व्यापारस्तस्य ध्यानम्, ब्राह्मणनयनाभिप्रायेण फलान्यपि मृगतो ब्रह्मदत्तस्येव तस्मिन् ।।३५।।
गुण. आभोगो ज्ञानपूर्वको व्यापारः ।।३५ ।।
३६-अणाभोगंझाणे [अनाभोगध्याने] भुव० - अनाभोगोऽत्यन्तविस्मृतिस्तस्य ध्यानं तस्मिन् । विस्मृतव्रतस्य प्रसन्नचन्द्रस्येव । आह च -
स्पृष्टः सुतममत्वेन प्रसन्नो व्रतविस्मृतः ।।
मनसा योद्धमारेभे, तैः समं क्रूरमन्त्रिभिः ।। इति ।।३६ ।। सोम० अणाभोगं झाणे - अनाभोगोऽत्यन्तविस्मृतिस्तस्य ध्यानम्, विस्मृतव्रतस्य प्रसन्नचन्द्रस्येव तस्मिन् ।।३६।। गुण अनाभोगोऽत्यन्तविस्मृतिः ।।३६ ।।
३७-अणाविलंझाणे [ऋणाविलध्याने]
भुव० अणम् ऋणं तेन आविलः कलुषस्तस्य ध्यानं तस्मिन् ऋणाविलस्य ऋणातस्य तैलकर्षनिमित्तं दासत्वं प्राप्तायाः श्रमणभगिन्या इव । अथवा परं प्रतार्य गृह्णात्यर्थं पश्चादृणं भङ्कत्वापलायिष्य इति चिन्तयत: ऋणाविलध्यानं तस्मिन् ॥३७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org