SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३४ ३१ - संगहंझाणे [ संग्रहध्याने] भुव० संग्रहो ऽत्यर्थमतृप्त्या धनमीलनम् । मम्मणकस्येव संग्रहस्य ध्यानं तस्मिन् ।। ३१ ।। सोम० संग्रहं झाणे संग्रहोऽत्यर्थमतृप्त्या धनमीलनं तस्य ध्यानम्, मम्मणस्येव तस्मिन् ।।३१ ।। गुण संग्रहोऽत्यर्थमतृप्त्या धनमीलनम् ।।३१।। आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान- ३१, ३२, ३३, ३४ - ३२- ववहारंझाणे [ व्यवहारध्याने] भुव व्यवहरणं व्यवहारः कार्यपरिच्छेदार्थं राजकुलादौ पुत्रधनार्थं, देशान्तरायातसार्थवाहपत्योरिव ।।३२।। सोम० ववहारं झाणे पुत्रधनार्थं देशान्तरायातसार्थवाहसपत्न्योरिव तस्मिन् ।।३२।। गुण व्यवहरणं व्यवहारः कार्यपरिच्छेदार्थं राजकुलादौ तस्य पुत्रधनार्थं देशान्तरायातसार्थवाहपत्योरिव ।।३२।। Jain Education International 2010_02 व्यवहारः स्वकार्यनिर्णयार्थं राजकुलादौ न्यायकरणं तस्य ध्यानम्, ३३- कयविक्कयंझाणे [क्रयविक्रयध्याने भुव० क्रयणं क्रयः, विक्रयणं विक्रयः । लाभार्थमल्पमूल्येन बहुमूल्यवस्तुग्रहणं क्रयश्च विक्रयश्च क्रयविक्रयौ तयोर्ध्यानं तस्मिन् । लुब्धकनन्दस्येव ।। ३३ ।। सोम० कयं झाणे - क्रयणं क्रयो लाभार्थमल्पमूल्येन बहुमूल्यवस्तुग्रहणम्, विक्रयणं विक्रयो बहुना मूल्येनाल्पमूल्यवस्तुदानम्, क्रयश्च विक्रयश्च क्रयविक्रयौ तयोर्ध्यानम्, लोहमूल्येन सुवर्णकुशग्राहिलोभनन्दस्येव तस्मिन् ।। ३३ ।। गुण क्रयविक्रयो लाभार्थमल्पमूल्येन बहुमूल्यवस्तुग्रहणम् ।।३३।। ३४ - अणत्थदंडंझाणे [ अनर्थदण्डध्याने] भुव० आत्मनः परेषां वाऽर्थाय दण्डः अर्थदण्डः नार्थदण्डोऽनर्थदण्डः । निष्प्रयोजनं प्राणिघातनं तस्य ध्यानं तस्मिन् । दुर्दान्तमत्ततया द्वैपायनं खलीकुर्वतां शाम्बादीनामिव, चक्रमण्डलीघ्नतो गङ्गदत्तस्येव वा विष्णु श्रीदेवीस्वर्गसन्देशकथननिपुणस्य वाचालस्येव वा ।। ३४ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy