________________
३४
३१ - संगहंझाणे [ संग्रहध्याने]
भुव० संग्रहो ऽत्यर्थमतृप्त्या धनमीलनम् । मम्मणकस्येव संग्रहस्य ध्यानं तस्मिन् ।। ३१ ।।
सोम० संग्रहं झाणे संग्रहोऽत्यर्थमतृप्त्या धनमीलनं तस्य ध्यानम्, मम्मणस्येव तस्मिन् ।।३१ ।।
गुण संग्रहोऽत्यर्थमतृप्त्या धनमीलनम् ।।३१।।
आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान- ३१, ३२, ३३, ३४
-
३२- ववहारंझाणे [ व्यवहारध्याने]
भुव व्यवहरणं व्यवहारः कार्यपरिच्छेदार्थं राजकुलादौ पुत्रधनार्थं, देशान्तरायातसार्थवाहपत्योरिव ।।३२।।
सोम० ववहारं झाणे पुत्रधनार्थं देशान्तरायातसार्थवाहसपत्न्योरिव तस्मिन् ।।३२।।
गुण व्यवहरणं व्यवहारः कार्यपरिच्छेदार्थं राजकुलादौ तस्य पुत्रधनार्थं देशान्तरायातसार्थवाहपत्योरिव ।।३२।।
Jain Education International 2010_02
व्यवहारः स्वकार्यनिर्णयार्थं राजकुलादौ न्यायकरणं तस्य ध्यानम्,
३३- कयविक्कयंझाणे [क्रयविक्रयध्याने
भुव० क्रयणं क्रयः, विक्रयणं विक्रयः । लाभार्थमल्पमूल्येन बहुमूल्यवस्तुग्रहणं क्रयश्च विक्रयश्च क्रयविक्रयौ तयोर्ध्यानं तस्मिन् । लुब्धकनन्दस्येव ।। ३३ ।।
सोम० कयं झाणे - क्रयणं क्रयो लाभार्थमल्पमूल्येन बहुमूल्यवस्तुग्रहणम्, विक्रयणं विक्रयो बहुना मूल्येनाल्पमूल्यवस्तुदानम्, क्रयश्च विक्रयश्च क्रयविक्रयौ तयोर्ध्यानम्, लोहमूल्येन सुवर्णकुशग्राहिलोभनन्दस्येव तस्मिन् ।। ३३ ।।
गुण क्रयविक्रयो लाभार्थमल्पमूल्येन बहुमूल्यवस्तुग्रहणम् ।।३३।।
३४ - अणत्थदंडंझाणे [ अनर्थदण्डध्याने]
भुव० आत्मनः परेषां वाऽर्थाय दण्डः अर्थदण्डः नार्थदण्डोऽनर्थदण्डः । निष्प्रयोजनं प्राणिघातनं तस्य ध्यानं तस्मिन् । दुर्दान्तमत्ततया द्वैपायनं खलीकुर्वतां शाम्बादीनामिव, चक्रमण्डलीघ्नतो गङ्गदत्तस्येव वा विष्णु श्रीदेवीस्वर्गसन्देशकथननिपुणस्य वाचालस्येव वा ।। ३४ ।।
For Private & Personal Use Only
www.jainelibrary.org