SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ खण्ड:-१ गा. २७, २८, २९, ३० २७-कलहंझाणे [कलहध्याने] सोम० कलहं झाणे - कलहो वाचिकाराटिः, तस्य ध्यानं कलहध्यानं रुक्मिणीसत्यभामयोर्व्यतिकरे कलहप्रियदुर्योधननृपस्येव कमलामेलादिव्यतिकरे नारदस्येव वा तस्मिन् ।।२७ ।। गुण. कलहो वाचिकाराटी तस्य ध्यानम् ।।२७।। २८-जुझंझाणे [युद्धध्याने] भुव० युद्धं परस्परप्राणव्यपरोपणाध्यवसायो वैरिणां भातृणां विनाशे चेटकेन सह कूणिकनृपस्येव । अङ्गारवत्यादिग्रहणे चण्डप्रद्योतस्येव वा ।२८।। सोम० जुझं झाणे - युद्धं वैरिणां परस्परं प्राणव्यपरोपणाध्यवसायस्तस्य ध्यानं युद्धध्यानम्, भातृणां विनाशे चेटकेन सह कोणिकनृपस्येव, अङ्गारवत्यादिग्रहणे चण्डप्रद्योतस्येव वा तस्मिन् ।।२८।। गुण. युद्धं परस्परं प्राणव्यपरोपणाध्यवसायो वैरिणं प्रति ।।२८।। २९-निजुझंझाणे [नियुद्धध्याने भुव० निर्गतमधमयुद्धं प्राणप्रहाणरूपं यत्र तन्नियुद्धम् । दृष्टिमुष्ट्यादिभिरेव जयहारिकारकं बाहुबलिभरतयोरिव नियुद्धस्य ध्यानं तस्मिन् । मात्स्यिकमल्लजितस्याट्टनकस्येव वा ।।२९।। सोम० निजुझं झाणे - निर्गतं युद्धं नियुद्धं प्राणव्यपरोपणरूपं यस्मिन् तन्नियुद्धम्, यष्टिमुष्ट्यादिभिरेव जयाऽजयकारकं तस्य ध्यानं नियुद्धध्यानम्, बाहुबलिभरतयोरिव मात्स्यिकमल्लयुतस्याट्टनस्येव वा तस्मिन् ।।२९।। गुण निर्गतमधमयुद्धं नियुद्धं दृष्टिमुष्टयादिभिरेव जयहारकारकं बाहुबलिभरतयोरिव ।।२९ । । ३०-संगंझाणे [सङ्गध्याने] भुव० सङ्गः परित्यक्तेष्वपि पुनः संयोगाऽभिष्वङ्गः । राजीमत्यां रथनेमेरिव, नागिलां प्रति भवदेवस्येव वा ।।३०।। भुव० संगं झाणे - सङ्गः परित्यक्तेष्वपि पुनःसंयोगाभिलाषस्तस्य ध्यानम्, राजीमत्यां रथनेमेरिव, नागिलां प्रति भवदेवस्येव वा तस्मिन् ।।३०।। गुण. परित्यक्तेष्वपि पुनः संयोगाऽभिष्वङ्गः ।।३० ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy