________________
३२
आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान-२४, २५, २६
२४-नेहंझाणे [स्नेहध्याने]
भुव स्नेहो मोहोदयजन्य: प्रीतिविशेषः । पुत्रादिष्वत्यन्तानुरागस्तस्य ध्यानं तस्मिन् । मरुदेवीसुनन्दाअरहन्नकमातृणामिव ॥२४।।
सोम० नेहं झाणे - स्नेहो मोहोदयजः प्रीतिविशेषः पुत्रादिष्वत्यन्तानुरागः, मरुदेवी-सुनन्दाऽहन्नकमात्रादीनामिव तस्य ध्यानं तस्मिन् ।।२४ ।।
गुण. स्नेहो मोहोदयजन्यः प्रीतिविशेषः ।।२४ ।।
२५-कामंझाणे [कामध्याने]
भुव० कामश्चतुर्विंशतिधा चतुःशरणव्याख्यातो [विज्ञेयः] । विषयाभिलाषस्तस्य ध्यानं तस्मिन् हासप्रहासप्रलोभितस्य कुमारनन्दिन इव, सीतां गृह्णतो रावणस्येव वा ।।२५।।
सोम० कामं झाणे - कामो विषयाभिलाषस्तस्य ध्यानं कामध्यानम्, हासा-प्रहासाप्रलोभितस्य कुमारनन्दिसुवर्णकारस्येव, सीतामपहरतो रावणस्येव वा तस्मिन् ।।२५।।
गुण. कामो विषयाभिलाषः ।।२५।।
२६-कलुसंझाणे [कलुषध्याने
भुव० अपमानतः परगुणोत्कर्षे प्रशंसाभिसूयातश्च मायावलेपाद्वा यश्चित्तस्य कलुषभावः । कालुष्यं गडुलता तद्धेतुर्भावोऽपि कलुषस्तस्य ध्यानं तस्मिन् । केशिराज्यदाने उदायनं प्रति अभीचिकुमारस्येव बाहुसुबाहुप्रशंसामसहमानयोः पीठमहापीठयोरिव वा, स्थूलभद्राभिसूयातश्च सिंहगुफाक्षपकस्येव वा ।।२६।।
सोम० कलुसं झाणे - कालुष्यध्यानम्, अपमानतो परगुणप्रशंसायामीातो वा चित्तस्य कलुषभावः कालुष्यं मलिनता तस्य ध्यानम्, बाहु-सुबाहुप्रशंसामसहमानयोः पीठ-महापीठयोरिव, स्थूलभद्रेया॑तः सिंहगुहास्थितक्षपकस्येव वा तस्मिन् ।।२६ ।।
गुण. अपमानतः परगुणोत्कर्षप्रशंसाभिसूयातश्च चित्तस्य कलुषभावः ।।२६ । ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org