________________
खण्ड:-१ दुर्ध्यान-२१, २२, २३
२१-पंथाणंझाणे [प्रस्थानध्याने
भुव० अनुस्वारौ द्वावष्यलाक्षणिको । तत: प्रस्थानमशुभमनसा गमनम् । अथवा महान् विषमश्च पन्थानः । सनत्कुमारं गवेषयतो महेन्द्रसिंहस्येव ब्रह्मदत्तं वा वरधनस्येव ।।२१।।
सोम. पंथाणं झाणे - महान् विषमश्चाध्वा पन्थानः, तस्य ध्यानम्, सनत्कुमारं गवेषयतो महेन्द्रसिंहस्येव, ब्रह्मदत्तं वा वरधनस्येव तस्मिन् । अथवा प्रस्थानं मनसा गमनं तस्मिन् वा । अनुस्वारौ द्वावप्यलाक्षणिकौ ।।२१।।।
गण. अनुस्वारौ द्वावप्यलाक्षणिकौ । ततः प्रस्थानमशुभमनसा गमनम् अथवा महान् पन्था तस्य ध्यानम् ।।२१।।
२२-निर्देझाणे [निद्राध्याने भुव नितरां द्राणं कुत्सितत्वगमनं निद्रा । तत्परतन्त्रस्य ध्यानं तस्मिन् । यथा
पुग्गल-मोयग-वंते-फसग-वडसालभंजणे चेव ।
निदा पमाए एए उयाहरणा हुंति नायव्वा ।।१।।२२।। सोम० निदं झाणे - निद्रापरतन्त्रस्य ध्यानं निद्राध्यानम्, स्त्यानर्धिनिद्रया १-महिषमांसभक्षि, २-मोदकाभिलाषि, ३-हस्तिदन्तोत्पाटकारि, ४-प्राक् कुम्भकारत्वाभ्यस्तमृत्पिण्डत्रोटनवत् साधुमस्तकत्रोटि, ५-वटशाखाभञ्जिसाधूनामिव तस्मिन् ।।२२।।
गुण. नितरां द्राणं कुत्सितत्वगमनं निद्रा ।।२२।।
२३-नियाणंझाणे [निदानध्याने] भुव० - स्वर्गादिऋद्धिप्रार्थनं निदानं तस्य ध्यानं तस्मिन् ।
राउग्गीथीपुरिसो बहुरयसरयारयासुरातिन्नि ।
सड्डादरिद्दगेहे वज्जेज्जा नवनियाणाई ।। भवान्तरे ऋद्ध्यादिप्रार्थनम् । नन्दिषेणगङ्गदत्तसम्भूतद्रौपद्यादीनामिव ।।२३।। सोम० निआणं झाणे - निदानं स्वर्ग-मादिऋद्धिप्रार्थनं, भवान्तरे नवनिदानरूपम् । नन्दिषेणगङ्गदत्त-सम्भूत-द्रौपद्यादीनामिव तस्मिन् ।।२३।।
गुण. स्वर्गादिऋद्धिप्रार्थनं निदानम् ।।२३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org