SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ३० आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान्-१८, १९, २० सोम आसं झाणे - आशा परसत्कवस्तुप्राप्त्यभिलाषरूपा तस्या ध्यानं आशाध्यानम् । निघृणशर्मब्राह्मणपाथेयं प्रति निष्पाथेयस्य मूलदेवस्येव तस्मिन् ।।१७।। गुण. आशाया ध्यानम् ।।१७।। १८-तण्हंझाणे [तृष्णाध्याने] भुव तीव्रकामाभिलाषस्तृष्णा । तृटपरीषहोदयजन्यः पीडाविशेषो वा तृष्णा । तस्या ध्यानं तृषार्तस्य क्षान्तिसहितस्य क्षुल्लकस्येव मार्गगच्छतः, अङ्गारदाहकस्येव वा ।।१८।। सोम० तण्हं झाणे - तृष्णा तृषापरीषहोदयस्तस्या ध्यानम्, तृषार्त्तस्य मार्गे गच्छतो जनकसाधुसहितस्य क्षुल्लकस्येव तस्मिन् ।।१८ ।। गुण. तृट्परीषहोदयजन्यः पीडाविशेषः ।।१८।। १९-छुहंझाणे [क्षुद्ध्याने भुव० क्षुधा क्षुत्परिषहोदयजन्य: कष्टविशेषः । क्षुधाया ध्यानं तस्मिन् । राजगृहे यात्रागतद्रमकस्येव ।।१९।। सोम० छुहं झाणे - क्षुधा क्षुत्परीषहोदयजन्यः पीडाविशेषः, तया यद् ध्यानं क्षुधाध्यानम्, राजगृहयात्रागतलोकसहगतद्रमकस्येव तस्मिन् ।।१९।। गुण. क्षुत्परीषहोदयजन्यः कष्टविशेषः ।।१९।। २०-पंथंझाणे [पथिध्याने] भुव० अल्पकालगम्योऽध्वा पन्थाः । पयोध्यानं पथि वा ध्यानं तस्मिन् पोतनपुरमार्ग गवेषयतो वल्कलचीरिण इव ।।२०।। सोम० पंथं झाणे - अल्पकालगम्योऽध्वा पन्था तस्य तस्मिन् वा ध्यानं पथिध्यानम्, पोतनपुरमार्गं गवेषयतो वल्कलचीरिण इव तस्मिन् ।।२०।। गण. अल्पकालगम्योऽध्वा पन्था तस्य पथि वा ध्यानं तस्मिन् ।।२०।। _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy