SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ खण्ड:-१ गा. १४, १५, १६, १७ . २९ १४-संकंझाणे [शङ्काध्याने] भुव० शङ्कनं शङ्का संशयकरणं शङ्का इति वचनात् शङ्काया ध्यानं शङ्काध्यानं तस्मिन् । अव्यक्तवादिनामाषाढाचार्यशिष्याणामिव ।।१४।। सोम० संकं झाणे - शङ्कनं शङ्का संशयकरणमित्यर्थः, तस्या ध्यानं शङ्काध्यानम् । अव्यक्तवादिनामाषाढाचार्यशिष्याणामिव तस्मिन् ।।१४।। गुण. संशयकरणं शङ्का ।।१४।। १५-कंखंझाणे [काङ्क्षाध्याने] भुव० काङ्क्षणं [काङ्क्षा] "कांखा अनन्नदंसणग्गाहो" इति भणनात् । काङ्क्षाया ध्यानं काङ्क्षाध्यानं तस्मिन् । कविला इत्थंपि इहयंपीति वदतो मरिचेरिव ।।१५।। सोमo कंखं झाणे - अन्यान्यदर्शनाग्रहः काङ्क्षा तद् ध्यानम्, “कविला इत्थं पि इहयं पि" इति वदतो मरिचेरिव तस्मिन् ।।१५।। गुण. काङ्क्षणं काङ्क्षा अन्यान्यदर्शनाग्रहः ।।१५।। १६-गेहिंझाणे [गृद्धिध्याने] भुव० गर्द्धनं गृद्धिः, आहारादिष्वत्यन्तमाकाङ्क्षा । गृद्धानं गृद्धिध्यानं तस्मिन् । मथुरामङ्गोरिव, कण्डरीकराजस्येव वा ।।१६।। सोम. गेहिं झाणे - गृद्धिराहारादिष्वत्यन्तमाकाङ्क्षा तस्या ध्यानं मथुरामङ्गोरिव कण्डरीकराजस्य मुक्तव्रतस्येव वा तस्मिन् ।।१६।। गुण. गृद्धिराहारादिष्वत्यन्तमाकाङ्क्षा ।।१६।। १७-आसंझाणे [आशाध्याने] भव. निष्पाथेयस्य परशम्बललाभप्रार्थनमाशा । आशाया ध्यानमाशाध्यानं तस्मिन् । अलब्धव्येऽपि तस्मिन्नाहाराभिलाष: निघृणशर्मब्राह्मणपाथेयं प्रति मूलदेवस्येव ।।१७।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy