SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ २ आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान-११, १२, १३ ११-इच्छंझाणे [इच्छाध्याने भुव० इच्छनमिच्छा संभाव्यमानस्याभिलाषाऽतिरेकः । इच्छाया ध्यानमिच्छाध्यानं तस्मिन् । द्विमाषार्थिन: कोटिस्वर्णलाभेऽपि प्रवर्धमानलोभस्य कपिलस्येव। तथाहि - कोसंबी कासवजसा कविलो सावत्थि इंददत्तो य । इब्भे य सालिभद्दे धणसेट्ठि पसेणई राया ।।१।।११।। [उत्तरा० नियु० २५३] सोम० इच्छं झाणे - इच्छा संभाव्यमानलाभस्याऽर्थस्याभिलाषातिरेकस्तस्या ध्यानमिच्छाध्यानम् । द्विमाषार्थिनः कोटिसुवर्णलाभेऽपि प्रवर्धमानलोभस्य कपिलस्येव तस्मिन् ।।११।। गुण. अर्थस्याभिलाषातिरेकः, इच्छाया ध्यानमिच्छाध्यानं तस्मिन् ।।११।। १२-मिच्छंझाणे [मिथ्याध्याने] भुव० मिथ्या विपर्यस्तदृष्टित्वम् । मिथ्याया ध्यानं मिथ्याध्यानं तस्मिन् । जमालिगोविन्दवाचकप्रभृतीनामिव ।।१२।। सोम० मिच्छं झाणे - मिथ्या विपर्यस्तदृष्टित्वं तद्ध्यानं मिथ्याध्यानम् । जमालिगोविन्दप्रभृतीनामिव तस्मिन् ।।१२।। गुण. मिथ्या विपर्यस्तदृष्टित्वं, मिथ्याया ध्यानं तस्मिन् ।।१२।। १३-मुच्छंझाणे [मूर्छाध्याने] भुव मूर्च्छनं मूर्छा अत्यर्थं राज्याद्यभिष्वङ्गः । स्वपुत्रान् व्यङ्गयत: कनकध्वजस्येव ।।१३।। सोम० मुच्छं झाणे - मूर्छाऽत्यर्थं पूर्वप्राप्तस्य राज्यादेरभिष्वङ्गः स्वपुत्रान् व्यङ्गयतः कनकध्वजस्येव ।।१३।। गुण मूर्छनं मूर्छाऽत्यर्थं राज्याद्यभिष्वङ्गः ।।१३।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy