________________
खण्ड: - १ दुर्ध्यान- ८, ९, १०
८ - रागंझाणे | रागध्याने |
भुव० रञ्जनं रागः । अनभिव्यक्तमायालोभस्वभावोऽभिष्वङ्गमात्रं रागस्तस्य ध्यानं तस्मिन् । स च त्रिधा कामरागो नेहरागो दृष्टिरागश्च । तत्र कामरागो विष्णुश्रियां विक्रमयशोराजस्येव । स्नेहरागो दामन्नगस्वसुरश्रेष्ठिन इव स्वपुत्रमरणश्रवणतो हृदयस्फोटनम् । द्दष्टिरागो ब्रह्मलोकादागत्य स्वदर्शनानुरागत 'आसुरे रमसे' इत्येवं भणतः कपिलस्येव ||८|
सोम० रागं झाणे - रागोऽभिष्वङ्गमात्रम्, स च कामराग-स्नेहराग - दृष्टिरागभेदात् त्रिधा । तत्र कामरागो विष्णुश्रियां विक्रमयशोराजस्येव, स्नेहरागो दामन्नकश्वसुरश्रेष्ठिन इव स्वपुत्रमरणश्रवणतो हृदयस्फोटात्, दृष्टिरागो ब्रह्मलोकादागत्य स्वदर्शनानुरागतः स्वशिष्यं प्रति “ आसुरे रमसे" इत्यादि भणतः कपिलस्येव तस्य ध्यानं तस्मिन् ॥ ८ ।।
"
गुण, रञ्जनं रागः, अनभिव्यक्तमायालोभस्वभावस्तस्य ध्यानं तस्मिन् ।
९- दोसंझाणे | द्वेषध्याने]
भुव दोसं ति प्राकृतत्वाद्दूषणं दोषः । स चानभिव्यक्तदोष | क्रोध ] मानलक्षणभेदस्वभावोऽप्रीतिमात्रं द्वेषः दोषो वा तस्य ध्यानं तस्मिन् । अथवा द्वेषः परद्रोहाध्यवसायः । मधुदेवपिप्पलादयोरिव । धर्मरुचिनाविकनन्दयोरिव वा । हरिवंशोत्पत्तौ वीरकदेवस्येव
२७
वा ।।९।।
सोम० दोसं झाणे अप्रीतिमात्रं परद्रोहाध्यवसायो वा द्वेषस्तस्य ध्यानम्, मधुदेवपिप्पलादयोरिव, धर्मरुचि-नाविकनन्दयोरिव, हरिवंशोत्पत्तौ वीरकदेवस्येव वा तस्मिन् ।।९।।
-
गुणद्वेषणं द्वेषः, स चानभिव्यक्तक्रोधमानलक्षणस्तस्य ध्यानं तस्मिन् । अथवा द्वेषः परद्रोहाध्यवसायः ।
Jain Education International 2010_02
१०- मोहंझाणे [ मोहध्याने]
भुव० मोहनं मोह आत्मनो वैचित्त्यताकरणमज्ञानत्वमित्यर्थः । तस्य ध्यानं तस्मिन् । मोहाद्विष्णुतनुं वहतो बलभद्रस्येव ।।१०।।
सोम० मोहं झाणे - मोहनं मोह आत्मनो वैचित्त्यताकरणमज्ञानत्वमित्यर्थस्तस्य ध्यानम्, मोहाद् विष्णुतनुं वहतो बलभद्रस्येव तस्मिन् ।।१०।।
गुण मोहनं मोहस्तस्य ध्यानं तस्मिन् ।।१०।।
For Private & Personal Use Only
www.jainelibrary.org