________________
२६
आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान-५, ६, ७
५-माणंझाणे [मानध्याने]
भुव माननं मानः स्वोत्कर्षस्तस्य ध्यानं तस्मिन् । यथा बाहुबलि-विश्वभूति-सुभूमपरशुरामाभिनिवेशागतसङ्गमदेवानामिव ।।५।।
सोम. माणंझाणे - मानध्यानं बाहुबलि-विश्वभूति-सुभूम-परशुरामाऽभिनिवेशागतसङ्गमकादीनामिव तस्मिन् ।।५।।
गुण. माननं मानः स्वोत्कर्षस्तस्य ध्यानम् ।।५।।
६-मायंझाणे [मायाध्याने भुव परविप्रतारणस्वरूपा माया । तथाहि -
सूरा मो मन्नता कइयवियाहिउवहिउवहिप्पहाणाहिं ।।
गहिया उभयपज्जोय कूलवालाइणो बहुवे ।।१।। [सूय० नि० ५०] मायाया ध्यानं तस्मिन् । स्वभ्रातृचित्तपरीक्षां कुर्वन्त्या धनश्रिया इव शुक्रस्येव वा ।।६।।
सोम० मायंझाणे - माया परविप्रतारणरूपा, तस्या ध्यानं मायाध्यानम्, भ्रातृद्वयचित्तपरीक्षां कुर्वन्त्या धनश्रिया इव तस्मिन् ।।६।।
गुणः परविप्रतारणस्वरूपा माया, तस्या ध्यानम् ।।६।।
७-लोभंझाणे [लोभध्याने
भुक लोभनं लोभस्तस्य ध्यानं तस्मिन् । “चेडगनिहाण" इत्याख्यानके वणिमित्रस्येव सिंहकेसरसाधोरिव वा ।।७।।
सोम० लोभं झाणे - लोभध्यानम्, “चेडगनिहाण" इत्याख्यानकोक्तवणिग्मित्रस्येव सिंहकेसरिसाधोरिव वा तस्मिन् ।।७।।
गुण. लोभनं लोभस्तस्य ध्यानं तस्मिन् ।।७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org