SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ खण्ड:-१ दुध्यान-२, ३, ४ ___२५ सोम० अन्नाणं झाणे - न ज्ञानमज्ञानं तस्य यद् ध्यानम्, अज्ञानमेव श्रेयो व्याख्यानकरणाद्यायासाभावात् । यदेवं स्वमनसि चिन्तनमशकटापितुः पूर्वभवे आचार्यस्य वाचनादिखिन्नस्येव । तस्मिन्नज्ञानध्याने योऽतिक्रमादिर्जातस्तस्य मिथ्या दुष्कृतमिति सम्बन्धः । अनुस्वारः सर्वत्र प्राकृतत्वात् ।।१।। गुण. अज्ञानादिध्यानेषु सत्सु यो मे ज्ञानादीनामतिक्रमादिर्जातस्तस्य प्रतिक्रमामीति संटङ्कः, सर्वध्यानपदेष्वनुस्वारोऽलाक्षणिकः ।।१।। २-अणायारंझाणे [अनाचारध्याने] भुव० न आचारोऽनाचारः, नञ् कुत्सार्थत्वाद्दुष्टाचारस्य ध्यानमनाचारध्यानम् । यथा वल्लरदाघं ध्यायत: कोकणीयस्य, देवानामनागमनादुत्प्रवजितुकामस्याऽऽषाढसूरेरिव वा । तस्मिन् योऽतिचारस्तस्य ।।२।। सोम० अणायारं झाणे - न आचारोऽनाचारः, नञः कुत्सार्थत्वाद् दुष्टाचारस्य ध्यानमनाचारध्यानम् । वल्लरदाघं ध्यायतः कोकणसाधोरिव, देवानामनागमनादुत्प्रव्रजितुकामस्याऽऽषाढसूरेरिव वा । तस्मिन् योऽतिचारस्तस्य ।।२।। गुण. अनाचारस्य दुष्टाचारस्य ध्यानमनाचारध्यानम् ।।२।। ३-कुदंसणंझाणे [कुदर्शनध्याने] भुव० कुत्सितं दर्शनं कुदर्शनं तस्य ध्यानम् । देवत्वं प्राप्तस्य मिथ्याभावपरिणतस्य सम्यग्दृष्टेरपि सुराष्ट्रश्रावकस्येव । तस्मिन् कुदर्शनध्याने ।।३।। सोम० कुदंसणंझाणे - कुत्सितं दर्शनं कुदर्शनं बौद्धादिरूपं तस्य ध्यानम्, देवत्वं प्राप्तस्य मिथ्याभावं परिगतस्य प्राक् सम्यग्दृष्टेरपि सुराष्ट्रश्रावकस्येव । तस्मिन् योऽतिचारस्तस्य ।।३।। गुण. कुत्सितं दर्शनं तत् कुदर्शनं तस्य ध्यानम् ।।३।। ४-कोहंझाणे [क्रोधध्याने भुव० क्रोधनं क्रोधस्तस्य ध्यानं तस्मिन् । कूलवालक-गोशालक-पालक-नमुचिशिवभूतिप्रभृतीनामिव ।।४।। सोम० कोहंझाणे - क्रोधध्यानं कूलवालक-गोशालक-पालक-नमुचि-शिवभूतिप्रभृतीनामिव तस्मिन् योऽतिचारस्तस्य ।।४।। गुण. क्रोधनं क्रोधस्तस्य ध्यानम् ।।४।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy