________________
आतुरप्रत्याख्यानप्रकीर्णकम् दुध्यान-१
अतिक्रमादिस्वरूपं चाह-“कम्मामंतण" इत्यादिगाथोक्ताऽऽधाकर्मविषयाऽतिक्रमादिस्वरूपवत् सर्वपापेषु ज्ञेयम् । इहलोगेसु वा-इह लोका मनुष्यलोकास्तेषु मनुष्येषु विषयभूतेषु यद् हिंसाद्यभिप्रायेणाऽतिक्रमादिरूपोऽपराधः कृतस्तस्य मिथ्या दुष्कृतम् । वाशब्दाः सर्वत्र समुच्चयार्थाः । परलोकेषु मनुष्यव्यतिरिक्तेषु तिर्यगादिषु यदपराद्धं तस्य मिथ्या दुष्कृतमिति सर्वत्र योज्यम् । तथा सचित्तेषु पृथिव्यादिषु यत्सङ्घट्टनादि कृतं, तस्य मिथ्या दुष्कृतम् । तथा अचित्तेषु शुषिरतृणदुष्प्रत्युपेक्षितकम्बलादिषु शयनोपवेशनादि कृतं तस्य । हिरण्यादिषु वा मार्गपतितदृष्टेषु ग्रहणाऽभिप्रायेणातिक्रमादि कृतं तस्य । तथा पञ्चस्विन्द्रियार्थेषु शब्द-रूप-गन्ध-रस-स्पर्शरूपेषु मनोज्ञाऽमनोज्ञेषु यदनुराग-विरागादि कृतं तथा अन्नाणं० तथा पूर्वोक्तेषु मिथ्यादर्शनादिषु वक्ष्यमाणेषु अज्ञानादिषु ध्यानेषु च सत्सु मम यो ज्ञानादीनामतिक्रमादिदोषो जातस्तं प्रतिक्रमामीति सम्बन्धः ।
गुण यदेव चानेन भणितुमिष्टं तदेव क्षपक एव गुरुविज्ञप्तिद्वारेणाह - इच्छामि अभिलषामि । भदन्त इति गुरुं प्रति विज्ञपयति । उत्तमार्थमनशनप्रतिपतिं कर्तुमभिलषामि । प्रतिक्रमामि सामान्यपापेभ्यो निवर्ते सर्वस्मादसन्मार्गात् सन्मार्ग प्रपद्ये । सामान्यतः प्रतिक्रमणे भणितेऽपि विशेषतस्रिकालविषयमप्याह - 'अईयं' अतीतपापव्यापारम्, अनागतं सावद्यारम्भं, प्रत्युत्पत्रं वर्तमानकालभाविकर्मबन्धं, कृतं निष्पादितं पापमात्मना, कारितमन्येषां हस्तेन, अनुमोदितं यन्मया शत्रुहननादि भव्यं कृतम् । मिथ्यात्वमाभिग्रहिकादि पञ्चप्रकारम् । असंयममेकविधस्वरूपं, कषायं चतुष्प्रकार, पापप्रयोगं त्रिविधं मनोवाक्काययोगम् अप्रशस्तयोगं, मिच्छादसणपरिणामेसु वा इत्याद्येषु पडिबुद्धस्स वा इत्यन्तेषु सर्वपदेषु इति योज्यम् । तत्र मिथ्यादर्शनपरिणामे सति तद्वांछायां यो मम देवसिको रात्रिको वाऽतिक्रमादिर्जातस्तस्य मिथ्या दुष्कृतं करोमि । इह० मनुष्यलोकास्तेषु यदपराद्धं, तस्य मिथ्यादुष्कृतम् । परलोकेषु मनुष्यजातिव्यतिरिक्तेषु तिर्यगादिषु यदपराद्ध, सचित्तेषु पृथिव्यादिषु यत्सङ्घट्टनादि कृतम्, अचित्तेषु शुषिरतृणादिषु, पञ्चस्विन्द्रियार्थेषु मनोज्ञामनोज्ञेष्वनुरागविरागादि कृतं तस्य मिथ्यादुष्कृतम् ।
तेवट्ठिझाणं त्रिषष्टिध्यानम्] १-अन्नाणंझाणे [अज्ञानध्याने]
भुव न ज्ञानमज्ञानं तस्य यद् ध्यानं तदज्ञानध्यानम् । अनुस्वारः सर्वत्र प्राकृतप्रभवः । तत्राज्ञानमेव श्रेयो व्याख्यानकरणाद्यायासाभावात् । यदेवं स्वचेतसि चिन्तनम् । यथाऽशकटापितुः पूर्वभव आचार्यस्य वाचनाखिन्त्रस्य । तस्मिन्नज्ञानध्याने योऽतिक्रमादिर्जातस्तस्य ।।१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org