SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ खण्ड:-१ गा. ११ अइयारो अणायारो तस्स मिच्छामि दुक्कडं"इति योज्यम् । तत्र मिथ्यादर्शनपरिणामे सति तद्वाञ्छायां यो मम दैवसिको रात्रिको वाऽतिक्रमव्यतिक्रमातिचारानाचारादिजातस्तस्य मिथ्यादुष्कृतं करोमि । इहलोगेषु वा इहलोका मनुष्यलोकास्तेषु मनुष्यलोकेषु यदपराद्धं तस्य मिथ्यादुष्कृतम् । वाशब्दा: सर्वपदेषु समुच्चयार्थाः । परलोगेसु वा परलोकेषु मनुष्यजातिव्यतिरिक्तेषु तिर्यगादिषु यदपराद्धं तस्य मिथ्यादुष्कृतम् । सचित्तेसु वा सचित्तेषु पृथिव्यादिषु यत्सङ्घट्टनादिकृतं तस्य । अचित्तेसु वा अचित्तेषु शुषिरतृणदुष्प्रत्युपेक्षितकम्बलादिषु यच्छयनोपवेशनादिकृतम्। हिरण्यादिषु वा मार्गपतितदृष्टेषु यन्ममत्त्वं वा कृतं तस्य । पंचसु इंदियत्थेसु पञ्चस्विन्द्रियार्थेषु शब्दरूपरसगन्धस्पर्शरूपेषु मनोज्ञामनोज्ञेषु यदनुरागविरागादि कृतं तस्य । तथा अन्नाणंझाणे इत्यादि मिथ्यादर्शनादिषु अज्ञानादिध्यानेषु च सत्सु मम यो ज्ञानादीनामतिक्रमादिः जातस्तस्य प्रतिक्रमामि इति संटंकः । सोम० अथ क्षपको गुरुविज्ञप्तिपूर्वकं यथैतत् प्रतिपद्यते तथाऽऽह- इच्छाम्यभिलषामि प्रतिपद्ये इत्यर्थः । भंतेत्ति भदन्त इति गुरोः सम्बोधनम् । किम् ? उत्तमार्थमनशनं कर्तुमिति शेषः । तदिच्छन् पूर्व किं कुर्वे इत्याह - प्रतिक्रमामि सामान्येन पापेभ्यो निवर्ते “पुट्विं अन्नाणयाए असवणयाए अबोही.” इत्यादिभिः पञ्चदशहेतुभिः प्रतिपन्नादसन्मार्गन्निवर्ते इत्यर्थः । अथ विशेषतस्त्रिकालविषयं प्रतिक्रमणमाह - अइयं-अतीतं प्राक्कृतं पापव्यापारं “निन्दा-गरिहा-सोहि" इत्यादिप्रकारेण प्रतिक्रमामि । अनागतं-भविष्यं सावद्यारम्भं “परिहरणा-वारणा-नियत्ती य" इत्यादिभेदेन प्रतिक्रमामि । प्रत्युत्पत्रं-वर्तमानकालभाविसावद्यसंवरणविधानेन प्रतिक्रमामि, निवर्ते पश्चात्तापादिकरणेनेत्यर्थः । तदपि किंस्वरूपं प्रतिक्रमामीत्याह - कृतं निष्पादितं पापं स्वयं तथा कारितमन्यैस्तथाऽनुमोदित-"यत् त्वया शत्रुहननादिकार्यं भव्यं कृतम्” इत्यादिवचनं तत् प्रतिक्रमामि । एतच्च पापं मिथ्यात्वा-ऽविरति-कषाय-योगरूपहेतुचतुष्टयादेव बध्नाति जीवोऽतस्तदेव प्रतिक्रमति। मिच्छत्तं-मिथ्यात्वमाभिग्रहिकादिपञ्चप्रकारं तथाऽसंयममेकविधं तथा कषायं क्रोधादिभेदाच्चतुष्प्रकारं तथा पापप्रयोगं त्रिविधं मनो-वाक्-कायव्यापारजं तदेव प्रतिक्रमामीति पूर्ववत् । अतः परं “मिच्छादसणपरिणामेसु वा" इत्यादिषु “पडिबुद्धस्स वा" इति पर्यन्तेषु 'जो मे कोई देवसिओ राइओ उत्तमढे अइक्कमो वइक्कमो अइआरो अणायारो तस्स मिच्छामि दुक्कडं' इति योज्यम् । ततोऽयमर्थो मिथ्यादर्शनपरिणामे मिथ्यात्वाध्यवसाये तद्वाञ्छायां सति यो मम दैवसिको रात्रिको वाऽतिक्रमो व्यतिक्रमोऽतिचारोऽनाचारो वा जातस्तस्य मिथ्या दुष्कृतं करोमि । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy