SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. ११ मिथ्यादर्शनपरिणामेषु वा, इहलोकेषु वा, परलोकेषु वा, सचित्तेषु वा, अचित्तेषु वा, पञ्चस्विन्द्रियार्थेषु वा [तस्य मिथ्यादुष्कृतम्] २२ भुव० यदेव चानेन भणितुमिष्टं तदेव गुरुविज्ञप्तिद्वारेणाह इच्छामि भंते उत्तमट्ठ पडिक्कमामि । इच्छाम्यभिलषामि प्रतिपद्ये भदन्त | इति ] गुरुं प्रति विज्ञपयति । किं किं विज्ञपयति ? उत्तमार्थमनशनप्रतिपत्तिं कर्त्तुमभिलषामि । तमिच्छन्नहं किं करोमि [ इत्याह ] - सामान्येन पापेभ्यो निवृत्तिः सर्वस्मादसन्मार्गात् । “पुव्विं अन्नाणयाए, असवणयाए, अबोहीयाए, अणभिगमेणं अभिगमेण वा पमाएणं रागदोषपडिबद्धयाए, बालयाए, मोहयाए, मंदयाए, किड्डयाए, तिगारवगरुआए, चउक्साउवगएणं, पंचिदियवसट्टेणं, पडिपुन्नभारियाए सायासुक्खमणुपालयंतेणं" इत्येतैः पञ्चदशभिर्हेतुभिः प्रतिपन्नाद् । [सामान्यतः ] प्रतिक्रमणे भणितेऽपि विशेषतस्त्रिकालविषयमप्याह - अईयं पडिक्कमामि अतीतं पापव्यापारं “ निन्दा गरिहा- सोही " इत्यादि प्रकारेण प्रतिक्रमामि । अणागयं पडिक्कमामि अनागतं सावद्यारम्भं " परिहरणा - वारणा - नियत्ती" इत्यादि भेदेन प्रतिक्रमामि । पच्चुप्पन्नं पडिक्कमामि प्रत्युत्पन्नं वर्तमानकालभाविकर्मबन्धं प्रतिचरणाविधानेन प्रतिक्रमामि । तत्र - मसामिच्छादुक्कडकरणं भावेण इह पडिक्कमणं । स चरित्तपच्छयावो निंदागरिहा गुरुसमक्खं ॥ १ ॥ तत्रापि किंस्वरूपं प्रतिक्रमामि कयं पडिक्कमामि कृतं निष्पादितं पापमात्मना प्रतिक्रमामि, कारियं पडिक्कमामि कारितमन्येषां हस्तेन तदेव प्रतिक्रमामि, अणुमोइयं पडिक्कम मि अनुमोदितं यत्त्वया शत्रुहननादि भव्यं कृतमिति वदनं तत्प्रतिक्रमामि । तदेनमतीतादिभेदं कृतादिभेदं वाऽशुभमनोवाक्कायव्यापारं हेतुचतुष्टयादेव बध्नाति जीवः । अतस्तदेव प्रतिक्रमणद्वारेण व्यनक्ति । मिच्छत्तं पडिक्कमामि तत्र मिथ्यात्वमाभिग्रहिकादिपञ्चप्रकारं प्रतिक्रमामि 1 असंयमं पडिक्कमामि मनोवाक्कायाशुभव्यापारम् असंयममेकविधस्वरूपं, कसायं पडिक्कमामि, कषायं चतुष्प्रकारं प्रतिक्रमाम पावप्पओगं पडिक्कमामि पापप्रयोगं त्रिविधमनोवाक्काययोगं प्रतिक्रमामि । तदेवं - - - मिच्छत्तपडिक्कमणं तहेव असंजमे पडिक्कमणं । कसायाण पडिक्कमणं जोगाण अप्पसत्थाणमिति ।। [ आव. नि. १२५० ] For Private & Personal Use Only चतुर्धा प्रतिक्रमणमुक्तम् । अतः परं “मिच्छादंसणपरिणामेसु वा" इत्यादिषु " पडिबुद्धस्स वा " पर्यन्तेषु सर्वपदेषु " जो मे कोई देवसिओ राइओ उत्तमट्टे अइक्कमो इक्कमो Jain Education International 2010_02 www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy