________________
खण्ड:-१ गा. १०
[पण्डितमरणम् गा. १० तः गा. ४४ यावत्] इय बालपंडियं होइ मरणमरिहंतसासणे दिटुं (भणियं) । इत्तो पंडियपंडियमरणं वुच्छं समासेणं ।।१०।। इति बालपण्डितं भवति मरणमर्हच्छासने दृष्टम् (भणितम्) ।
इतः पण्डितपण्डितमरणं वक्ष्ये समासेन ।।१०।। भुव० अथवा बालपण्डितमरणं । पर्यन्तसमयेऽपि सर्वविरतेरनङ्गीकरणाद्वालम् अनशनप्रतिपत्तेश्च पण्डितं भवति । [बालं च तत्] पण्डितं च बालपण्डितं भवति मरणम् । अर्हत्शासने जिनप्रवचने दृष्टं भणितम् । इतोऽनन्तरं पण्डितपण्डितमरणं सुसाधुमरणं वक्ष्येऽभिधास्ये समासेन संक्षेपेणेत्यर्थ एतद्ग्रन्थकारवचनम् ।।१०।।
सोम० इत्यमुना पूर्वोक्तप्रकारेण पर्यन्तसमयेऽपि सर्वविरतेरनङ्गीकरणाद्वालम्, अनशनप्रतिपत्तेश्च पण्डितम्, बालं च तत् पण्डितं च बालपण्डितं भवति मरणम् । अर्हच्छासने जिनप्रवचने दृष्टं भणितम् । इतोऽनन्तरं पण्डितपण्डितमरणं सुसाधुमरणं वक्ष्येऽभिधास्ये समासेन संक्षेपेण एतद् ग्रन्थकारवचनम् ।।१०।।
गुण. इतोऽनन्तरं पण्डितपण्डितमरणं सुसाधुमरणं वक्ष्येऽभिधास्ये । समासेन संक्षेपेणेत्यर्थ एतद् ग्रन्थकारवचनम् ।।१०।। __ [कालत्रिक-करणत्रिक-योगचतुष्कत्रिषष्ठिध्यानादिकम्
प्रतिक्रमण-निन्दा-गर्दा गा. ११] इच्छामि भंते ! उत्तमटुं पडिक्कमामि अईयं पडिक्कमामि अणागयं पडिक्कमामि, पच्चुप्पत्रं पडिक्कमामि, कयं पडिक्कमामि, कारियं पडिक्कमामि, अणुमोइयं पडिक्कमामि, मिच्छत्तं पडिक्कमामि, असंजमं पडिक्कमामि, कसायं पडिक्कमामि, पावप्पओगं पडिक्कमामि, मिच्छादसणपरिणामेसु वा, इहलोगेसु वा, परलोगेसु वा, सचित्तेसु वा, अचित्तेसु वा, पंचसु इंदियत्थेसु वा;
इच्छामि भदन्त ! उत्तमार्थं प्रतिक्रमामि, अतीतं प्रतिक्रमामि, अनागतं प्रतिक्रमामि, प्रत्युत्पन्न प्रतिक्रमामि, कृतं प्रतिक्रमामि, कारितं प्रतिक्रमामि, अनुमोदितं प्रतिक्रमामि, मिथ्यात्वं प्रतिक्रमामि, असंयम प्रतिक्रमामि, कषायं प्रतिक्रमामि, पापप्रयोगं प्रतिक्रमामि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org