SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. ९ गुण तत्केन विधिना क्रियत इत्याह- यो भक्तपरिज्ञाध्ययने श्रावकस्यानशनप्रतिपत्तिं कुर्वत उपक्रमः पीठबन्धो विस्तरेण निर्दिष्टो भणितः स एवात्राप्यध्ययने बालपण्डितमरणे यथायोग्यं यथोचितं ज्ञेय इत्यर्थः ।। ८ ।। २० वेमाणि कप्पोवसु नियमेण तस्स उववाओ । नियमा सिज्झइ उक्कोसएण सो सत्तमंमि भवे ।। ९ ।। वैमानिकेषु कल्पोपगेषु नियमेन तस्योपपातः । नियमात् सिद्ध्यत्युत्कृष्टतः स सप्तमे भवे ।। ९ ।। विमाने भवा भुव० अथ तस्यैवंविधाराधनायुक्तस्य क्वोपपात इति दर्शयन्नाह वैमानिकास्ते च ज्योतिष्का अपि भवन्तीति तद्व्यवच्छेदार्थं विशिनष्टि - कप्पोवगेसु त्ि 'कल्पान् सौधर्म्मादीनुपगच्छन्तीति कल्पोपगास्तेषु न तु कल्पातीतेषु । नियमेण तस्स वाओ तस्य श्रावकस्य नियमेन निश्चयेन सौधर्मादिषूपपातः । यतस्तस्याबद्धायुषो वैमानिकवर्जदेवायुषो बन्धाभावात् । तथा चार्षमुपपातमङ्गीकृत्य " सावगस्स जहन्नेणं सोहम्मे उववाओ, उक्कोसेणं अच्चुए" । अथ कियत्सु भवेषु स सेत्स्यतीत्याह - नियमा सिज्झइ उक्कोसणं ति निश्चयेनोत्कृष्टतो भवानङ्गीकृत्य सप्तमे भवे सेत्स्यतीत्यर्थः । । १ । । सोम० अथ तस्यैवंविघाराघनायुक्तस्य क्वोपपात इति दर्शयति विमाने भवा वैमानिकाः, ते च ज्योतिष्कां अपि भवन्तीति तद्व्यवच्छेदाय विशेषणमाह- कप्पो० कल्पान् सौधर्मादीनुपगच्छन्तीति कल्पोपगास्तेषु न तु कल्पातीतेषु श्रावकस्य पूर्वमबद्धायुषो जघन्यतः सौधर्मादारभ्योत्कृष्टतो ऽच्युतं यावदेव गमनसम्भवात् नियमेन तस्योपपातः । अथ स श्राद्धधर्माराधकोऽप्रतिपतितधर्मा कतिपयैर्भवैः सिध्यतीत्याह- निय० नियमान्निश्चयेनोत्कृष्टतो भवानङ्कीकृत्य सप्तमे भवे सिध्यति जघन्यतश्चत्वारतोऽपि ।। ९ ।। Jain Education International 2010_02 - गुण वैमानिका ज्योतिष्का अपि भवन्तीति तद्व्यवच्छेदार्थं कल्पोपगतेषु न तु कल्पातीतेषु श्रावकस्य नियमेन सौधर्म्मादिषूपपातः । निश्चयेनोत्कृष्टतो भवानङ्गीकृत्य सप्तमे भवे सेत्स्यतीत्यर्थः । । ९ । । For Private & Personal Use Only - www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy