SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ खण्ड:-१ गा. ३४ नाणम्मि दंसणम्मि य तवे चरित्ते य चउसु वि अकंपो । धीरो आगमकुसलो अपरिस्सावी रहस्साणं ।।३४।। ज्ञाने दर्शने च तपसि चारित्रे च चतुर्भुप्यकम्पः । धीर आगमकुशलोऽपरिश्रावी रहस्यानाम् ।।३४।। भुव० अथ यस्य गुरोः सकाश आलोच्यते तस्य गुणान्याह- ज्ञाने पञ्चप्रकारे, अक्षोभ्यः सन् सम्यक् तद्वेदित्वात् । आगमववहारीछज्जणाओ पच्चक्खनाणिणो एए । केवलमणोहिदंसी चउदसदसपुब्बिनवपुवी।।१।। बहु आगमविन्नाणा समाहिउप्पायगा य गुणगाही । एएण कारणेणं अरहा आलोयणं सोउं ।। इति ।।२।। [उत्तरा० ३६-२६०] तथा दर्शने वाक्षोभ्यः । क्षायिकौपशमिकक्षायिकौपशमिकरूपे, कारक-रोचक-दीपकवेदकरुपे वा निसर्गाधिगमरूपे वा इत्यादि तद्भेदप्रभेदवेत्ता । तपसि द्वादशप्रकारे स्वयं करणसमर्थोऽन्ये कारापणविधिज्ञश्च । चारित्रे च सामायिकछेदोपस्थापनविशुद्धिकसूक्ष्मसंपराययथाख्यातरूपे । चतुर्ध्वपि न पुनरेकैकस्मिन् । अक्षोभ्यो देवैरप्यचाल्यः । धिया राजत इति धीरो धैर्यमापादयति। आगमकुशलः । आदिपदग्रहणादागम-श्रुत-ज्ञान-धारणाजीत-व्यवहारनिपुणः । प्रतिश्रवतीत्येवंशील: प्रतिश्रावी न प्रतिश्रावी अप्रतिश्रावी समुद्रवद्गम्भीर इत्यर्थः । केषामप्रतिश्रावी ? रहस्यानामालोचकेनालोचितानाम् । एवंविधस्य गुरोः पार्श्वे आलोचनीयमित्युक्तम् ।।३४॥ सोम0 अथ यस्य गुरोः सकाश आलोच्यते तस्य गुणानाह - ज्ञाने पञ्चप्रकारे तथा दर्शने क्षायोपशमिकक्षायिकौपशमिकरूपे कारकरोचकदीपकरूपे वा, 'अकंपो' अक्षोभ्यो देवैरप्यचाल्य इत्यर्थः ज्ञानानां दर्शनानां च सम्यग् भेदप्रभेदादिस्वरूपवेत्तृत्वात्, तथा तपसि द्वादशप्रकारे स्वयं करणसमर्थोऽन्ये कारापणविधिज्ञश्च, चारित्रे च सामायिकादिपञ्चभेदे स्वयं पालनपरस्तदाराधनसमर्थः पूर्वोक्तेषु चतुर्ध्वपि न पुनरेकैकस्मिन्, अथवा पिण्ड-शय्या-वस्त्र-पात्रेषु चतुर्भुकम्पोऽचाल्यः । यथा धिया राजते इति धीरो विशुद्धबुद्धिमान् सुभटो वा परीषहादिशत्रून् प्रति, तथाऽऽगमकुशलोऽत्राऽऽदिपदाध्याहाराद् आगम-श्रुता-ऽऽज्ञा-धारणा-जीतव्यवहारनिपुण इत्यर्थः, अथवाऽऽगमे सिद्धान्ते, सम्यग् तदर्थवेत्तृत्वात् निपुणः, तथा न प्रतिश्रवतीत्येवंशीलोऽप्रतिश्रावी, Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy