SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ६० आतुरप्रत्याख्यानप्रकीर्णकम् गा. ३५ केषाम् ? रहस्यानाम्, आलोचकेनालोचितानाम्, सागरवद्गम्भीर इत्यर्थः, एवंविधस्य गुरोः पार्श्व आलोचनीयमित्युक्तम् ।।३४ ।। गण यस्याग्र आलोच्यते तद्गुणानाह- ज्ञाने पञ्चप्रकारेऽकम्पोऽक्षोभ्यः । तथा दर्शने क्षायोपशमिकादौ चाक्षोभ्यः, तपसि द्वादशप्रकारे, चारित्रे च सामायिकादौ चतुर्बपि अक्षोभ्यः । धीरो धैर्यमापादयति । आगमकुशलः, अप्रतिश्रावी, केषाम् ? रहस्यानाम्, आलोचकेनालोचितानाम् ।।३४।। रागेण व दोसेण व जं भे अकयत्रुया पमाएणं । जो मे किंचि वि भणिओ तमहं तिविहेण खामेमि ।।३५ ।। रागेण वा द्वेषेण वा या भवतामकृतज्ञतया प्रमादेन । यन्मया किञ्चिदपि भणितं तदहं त्रिविधेन क्षमयामि ।।३५।। भुक. अथ कथमप्यालोचयता पुरा वा गुरोविरूपमाचरितं स्यात्तदाह - रागेण वा अतिप्रेमवशात् द्वेषेण वा प्रमादस्खलितादौ शिक्षितेन द्विष्टेनाऽकृतज्ञतया वा गुरुकृतोपकारगुणानभिज्ञेन वा प्रमादेन वाऽनाभोगेन वा यत्किमपि भे भवतां विरूपमाचरितं पूज्यानां सतां तत्सर्वं क्षमयामि । तथान्योऽपि मया यः कश्चित् विरूपोऽलीकोट्टनादिर्भवतां भणितस्तमप्यहं त्रिविधेन मनोवाक्कायेन क्षमयामि मर्षयामीत्यर्थः ।।३५ ।। सोम0 अथ कथमप्यालोचकेन पूर्वं तदा वा गुरोः किमपि विरूपमाचरितं स्यात् तत् क्षमयति - रागेण वाऽतिप्रेमवशात् द्वेषेण वा प्रमादस्खलितादिशिक्षायां द्विष्टेनाऽकृतज्ञतया वा गुरुकृतोपकारविस्मरणेन प्रमादेन वाऽनाभोगेन वा यत् किमपि 'भे' भवतां पूज्यानां विरूपमाचरितमिति शेषः, तथाऽन्योऽपि यः कश्चिद् विरूपोऽलीकोद्घट्टनादिदोष इति शेषः, भणित उक्तस्तत् सर्वमहं त्रिविधेन मनोवाक्कायेन क्षमयामि ।।३५ ।। गुणा रागेण अतिप्रेमवशात् । द्वेषेण प्रमादस्खलितादौ शिक्षितेन द्विष्टेन यत्किमपि भे भवताम् अकृतज्ञतया प्रमादेन वा विरूपमाचरितं तत्सर्वं क्षमयामि यो मया कश्चिद्विरूपोऽलोकोद्घट्टनादिर्भवतां भणितस्तमहं त्रिविधेन मर्षयामि ।।३५ ।। JainEducation International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy