________________
खण्ड:-१ गा. ३६
तिविहं भणंति मरणं, बालाणं बालपंडियाणं च । तइयं पंडियमरणं जं केवलिणो अणुमरंति ।।३६।। त्रिविधं भणन्ति मरणं बालानां बालपण्डितानां च ।
तृतीयं पण्डितमरणं यत्केवलिनोऽनुम्रियन्ते ।।३६।। भुव० अथालोचितक्षमितगुरुः क्षपकोऽनित्यभावनां भावयन् मरणस्वरूपं चिन्तयंश्चाहत्रिविधं त्रिप्रकारं भणन्ति मरणम् । बाला इव बाला अज्ञा विरतिसाधकविवेकविकलत्वात् । असंयमा अविरतसम्यग्दृष्टिपर्यन्तास्तेषां बालानाम् । तथाऽविरतत्वेन बाला देशविरतत्वेन पण्डितास्तेषां बालपण्डितानां च । तइयं पि तृतीयं पिडिधातोर्गत्यर्थत्वेन ज्ञानार्थत्वाद्विरतिफलेन फलवद्विज्ञानमुक्तत्वात् पण्डिता बुद्धतत्त्वाः संयता इत्यर्थः । तेषां मरणं पण्डितमरणम् । यद्यस्मात्केवलमनन्तं संपूर्णं वा ज्ञानादि येषां ते केवलिनः । अनुम्रियन्ते यतस्तेऽपि पादपोपगमनं कुर्वन्तीति । अणुसरंतीति पाठे अनुसरन्त्यनुगच्छन्तीत्यर्थः ।।३६।।
सोम0 अथ क्षपको मरणस्वरूपं चिन्तयन्नाह - त्रिविधं त्रिप्रकारं भणन्ति जिना इति गम्यते । किम् ? मरणम्, बाला इव बाला अज्ञाना विरतिरूपविवेकविकला असंयता अविरतसम्यग्दृष्टिपर्यन्तास्तेषामेकं मरणम्, तथाऽविरतत्वेन बाला देशविरतत्वेन पण्डितास्तेषां बालपण्डितानां मरणं द्वितीयम्, तृतीयं सर्वविरतिफलविज्ञानयुक्तत्वात् पण्डिता बुद्धतत्त्वाः संयता इत्यर्थः, तेषां यत् मरणं पण्डितमरणं पादपोपगमनादिरूपम्, केवलमनन्तं सम्पूर्ण विज्ञानादि येषां ते केवलिनस्तेऽप्यनुम्रियन्ते कुर्वन्तीति, ‘अणुसरंति' इति पाठेऽनुसरन्त्यनुगच्छन्तीत्यर्थः ।।३६।।
गुण त्रिप्रकारं बाला इव बाला अज्ञाना विवेकविकलत्वात् असंयता अवरितसम्यग् - दृष्टिपर्यन्तास्तेषां बालानां बालमरणम् । तथाऽविरतत्वेन बाला देशविरतत्वेन च पण्डितास्तेषां बालपण्डितमरणम् । तृतीयं विज्ञानयुक्तत्वात् पण्डिताः बुद्धतत्त्वास्तेषां मरणं पण्डितमरणम् । यद्यस्मात्केवलिनोऽनुम्रियन्ते यतस्तेऽपि पादपोपगमनं कुर्वन्तीति ।।३६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org