SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ६२ [गा. ३७-४५ असमाधिमरणं तत्फलं च ] जे पुण अट्ठमईया पयलियसन्ना य वक्कभावा य । असमाहिणा मरंति उ न हु ते आराहगा भणिया ।। ३७ ।। आतुरप्रत्याख्यानप्रकीर्णकम् गा. ३७ ये पुनरष्टमदिकाः प्रचलितसंज्ञाश्च वक्रभावाश्च । असमाधिना म्रियन्ते नैव ते आराधका भणिताः ।। ३७ ।। भुव इति मरणस्वरूपं विज्ञाय समाधिमरणेन मर्त्तव्यम् । असमाधिमरणे दोषान् दर्शयन्नाह - ये पुनर्जीवाः अष्टौ मदस्थानानि येषां ते अष्टमदिकाः । 'अट्टमइया' इति पाठे ऋतं दुःखं तस्य निमित्तमार्त्तं ऋते दुःखे भवे वा आर्त्तम् ऋते पीडिते वा भवमार्त्तम् आर्ते मतिर्येषां ते आर्त्तमतिकाः स्वार्थे इकप्रत्ययो भवति । पयलियसन्नाय इति प्रचलिता विषयकषायादिभिः सन्मार्गात्परिभ्रष्टा संज्ञा बुद्धिर्येषां ते प्रचलितसंज्ञा: प्रगलितसंज्ञा वा । चः समुच्चये । वक्कभावत्ति वञ्चयते संचाल्यते आत्मा परो वा ऐहिकपारत्रिकलाभस्य येन स वक्रः । अथवा वक्रः कुटिलः । वक्रो वंको वा भावो येषां ते वक्रभावाः । यत एवंविधा अत एवासमाधिना चित्तास्वास्थ्यरूपया म्रियन्ते । न हु नैव आराधका उत्तमार्थसाधका भवन्ति जायन्त इत्यर्थः ।। ३७ ।। सोम० इति मरणस्वरूपं ज्ञात्वा समाधिमरणेन मर्त्तव्यम् । असमाधिमरणे दोषानाह ये पुनर्जीवा अष्टौ मदस्थानानि येषां तेऽष्टमदिकाः, 'अट्टमइआ' पाठे आते ध्याने मतिर्येषां ते आर्त्तमतिकाः, स्वार्थे इक - कप्रत्ययौ । प्रचलिता विषयकषायादिभिः सन्मार्गात् परिभ्रष्टा संज्ञा बुद्धिर्येषां ते प्रचलितसंज्ञाः प्रगलितसंज्ञा वा, चः समुच्चये । वञ्च्यते स्खल्यते शल्यते चाल्यते आत्मा परो वा ऐहिकपारत्रिकलाभाद् येन स वक्रः, अथवा वंको वा कुटिलो भावो येषां ते तथा, यत एवंविधा अत एवासमाधिना चित्तास्वास्थ्यरूपेण म्रियन्ते 'न हु' नैव 'हु'रेवार्थे ते आराधका उत्तमार्थसाधका भवन्तीत्यर्थः ।। ३७ ।। गुणः समाधिमरणेन मर्त्तव्यमसमाधिमरणे दोषा इति दर्शयन्नाह - ये जीवा अष्टौ मदस्थानानि येषां तेऽष्टमदिकाः, प्रचलिता विषयकषायादिभिः सन्मार्गात्परिभ्रष्टा संज्ञा बुद्धिर्येषां ते, अथवा प्रगलितसंज्ञाः । चः समुच्चये । वञ्च्यते आत्मा परो वा ऐहिकपारत्रिकलाभात् येन स वक्रः अथवा वकः कुटिलः, असमाधिना चित्ताऽस्वास्थ्यरूपया म्रियन्ते ||३७।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy